This page has not been fully proofread.

११८
 
शार्ङ्ग वरपद्धतिः
 
सर्वाशाप्रतिरोधकान्धतम सध्वंसाय बद्धोद्यमो
धिग्धातारमिहापि लक्ष्म लिखितुं यस्य प्रवृत्तं मनः ॥ १४ ॥
 
कस्यापि ।
 
762
 
निरर्थकं जन्म गतं नलिन्या
यथा न दृष्टं तुहिनांशुविम्वम् ।
उत्पत्तिरिन्दोरपि निष्फलैव
 
दृष्टा प्रहटा नलिनी न येन ॥ १५ ॥
 
कस्यापि ।
 
763
 
विरम तिमिर साहसादमुप्मा-
यदि रविरस्तमितः स्वतस्ततः किम् ।
कलयसि न पुरो महोमहोर्मि-
द्युतिनिधिरभ्युदयत्ययं शशाङ्कः ॥ १६ ॥
 
बल्लालसेनस्य ।
 
764
 
उच्चैः स्थानकृतोदयैर्बहुविधैज्योतिर्मिरुद्यत्प्रभैः
 
:
 
शुक्राद्यैः किममीभित्र वितथां प्रोटं दधानैरपि ।
यावलोकतमोपन भवता लक्ष्मीर्न विस्तार्यते
 
ताबच्चन्द्र कथं प्रयाति परमां वृद्धिं स रत्नाकरः ॥१७॥
 
त्रिलोचनस्य ।
 
अथ मेघान्योक्तयः ॥ ४२ ॥
 
765
 
एकस्य तस्य मन्ये धन्यामभ्युन्नतिं जलधरस्त्र ।
विश्वं सशैलकाननमाननमवलोकते यस्य ॥ १ ॥
प्रह्लादनस्य ।
 
766
 
संप्रति न कल्पतरवो न सिद्धयो नापि देवता वरदाः ।
जलद त्वाय विश्राम्यति सृष्टिरियं भुवनलोकस्य ॥ २ ॥
 
वस्तुपालस्य ।