This page has been fully proofread once and needs a second look.

चन्द्रान्योक्तयः
 

त्यजसि न मृगमात्रमेक
मिन्दो
 

विरमति येन कलङ्ककिंवदन्ती ॥ ८ ॥
 

उमापतिधरस्य ।
 

756
 

यद्यपि शिरोधिरोहति रौद्रः क्रोधेन सिंहिकातनयः ।

त्यजति न शरणं यातं सागरसूनुभृंर्मृगं तदपि ॥ ९ ।
 

मदनस्य ।
 

757
 

क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोतिदूरताम् ।

उपैति मिन्नात्त्राद्यच्चन्द्रो युक्तं तन्मलिनात्मनः ॥ १० ॥
 
११७
 

758
 
यज्

ज्जातोसि पयोनिधौ हरजटाजूटे प्रसिद्धोसि य-

द्विश्वस्योदरदीपकेकोसि विधिना सृष्टोसि यच्चामृतैः ।

भ्रातः शीतमयूख सर्वमधुना म्लानीकृतं तत्त्वया

राजीवं यदपास्य कैरवकुलं नीतं विकासास्पदम् ॥ ११ ॥
 

759
 

लब्धं जन्म सह श्रिया स्वयमपि त्रैलोक्यभूषाकरः

स्थित्यर्थं परमेश्वरोभ्युपगतस्तेनापि मूर्ध्ना धृतः ।

वृद्धिं शीतकरस्तथापि न गतः क्षीणः परं प्रत्युत

प्रायः प्राक्तनमेव कर्म बलवत्कः कस्य कर्तुं क्षमः ॥१२॥
 

केषामध्प्येते ।
 

760
 

पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरोः

क्रान्तं येन क्षपिततमसा मध्यमं धाम विष्णोः ।

सोयं चन्द्रः पतति गगनादल्पशेषैर्मयूखै-

र्
दूरारोहो भवति महतामध्प्यपभ्रंशहेतुः ॥ १३ ॥
 

कालिदासस्य ।
 

761
 

पीयूषं वपुषोस्य हेतुरुदयो विश्वस्य नेत्रोत्सवः
 

प्लुष्टं भानुकरैरयं त्रिभुवनं ज्योत्स्नाभरैः सिञ्चति ।