This page has been fully proofread once and needs a second look.

सूर्यान्योक्तयः
 

742
 

करान्प्रसार्य रविणा दक्षिणाशावलम्बिना ।

न केवलमनेनात्मा दिवसोपि लघुघूकृतः ॥ ६ ॥
 

743
 

निमीलनाय पद्मानामुदयायाल्पतेजसाम् ।

तमसामवकाशाय व्रजत्यस्तमहो रविः ॥ ७ ॥
 

744
 

येनोन्मथ्य तमांसि मांसलघनस्पर्धीनि सर्वं जग
ज्
-
च्
चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा ।

तस्मिन्नस्तभिमिते विवस्वति कियान्क्रूरो जनो दुर्जनो

यद्वभाबध्नाति धृतिं शशाङ्कशकलालोके प्रदीपेथवा ॥ ८ ॥
 

केषामप्येते ।
 

745
 

पातः पूष्णो भवति महते नोपतापाय यस्मा -
स्

त्
कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये ।

एतावत्तु व्यथयति यदालोकवाद्बाह्यैस्तमोभि-

स्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोवकाशः ॥ ९ ॥
 

746
 

गते तस्मिन्माभानौ त्रिभुवनसमुन्मेषविरह-

व्यथां चन्द्रो नेष्यत्यनुचितमितो नास्ति किमपि ।

इदं चेतस्तापं जनयतितरामत्र यदमी
 

प्रदीपा: संजातास्तिमिरहतिबद्धोद्धुरशिखाः ॥ १० ॥

एतौ भल्लस्य ।
 
११५
 
टस्य ।
747
 

यत्पादाः शिरसा न केन विधृताः पृथ्वीभृतां मध्यत-

स्तस्मिन्भास्वति राहुणा कवलिते लोकत्रयीयींचक्षुषि ।

खद्योतैः स्फुरितं तमोभिरुदितं ताराभिरुज्जृम्भितं

घूकेरुत्थितमाः किमत्र रुत्थितमाः किमत्र करवै किकिं केन नो चेष्टितम् ॥११॥
 

परिमलस्य ।