This page has not been fully proofread.

सूर्यान्योक्तयः
 
742
 
करान्प्रसार्य रविणा दक्षिणाशावलम्बिना ।
न केवलमनेनात्मा दिवसोपि लघुकृतः ॥ ६ ॥
 
743
 
निमीलनाय पद्मानामुदयायाल्पतेजसाम् ।
तमसामवकाशाय व्रजत्यस्तमहो रविः ॥ ७ ॥
 
744
 
येनोन्मथ्य तमांसि मांसलघनस्पर्धीनि सर्व जग
ज्चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा ।
तस्मिन्नस्तभिते विवस्वति कियान्क्रूरो जनो दुर्जनो
यद्वभाति धृतिं शशाङ्कशकलालोके प्रदीपेथवा ॥ ८ ॥
 
केषामप्येते ।
 
745
 
पातः पूष्णो भवति महते नोपतापाय यस्मा -
स्कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये ।
एतावत्तु व्यथयति यदालोकवाद्यैस्तमोभि-
स्तस्मिन्नेव प्रकृतिमहति व्योनि लब्धोवकाशः ॥ ९ ॥
 
746
 
गते तस्मिन्मानौ त्रिभुवनसमुन्मेषविरह-
व्यथां चन्द्रो नेष्यत्यनुचितमितो नास्ति किमपि ।
इदं चेतस्तापं जनयतितरामत्र यदमी
 
प्रदीपा: संजातास्तिमिरहतिबद्धोद्धुरशिखाः ॥ १० ॥
एतौ भल्लस्य ।
 
११५
 
747
 
यत्पादाः शिरसा न केन विधृताः पृथ्वीभृतां मध्यत-
स्तस्मिन्भास्वति राहुणा कवलिते लोकत्रयीचक्षुषि ।
खद्योतैः स्फुरितं तमोभिरुदितं ताराभिरुज्जृम्भितं
घूकरुत्थितमाः किमत्र करवै कि केन नो चेष्टितम् ॥११॥
 
परिमलस्य ।