This page has been fully proofread once and needs a second look.



परिहर मधुसूदनप्रपन्ना-
न्प्रभुरहमन्यनृणां न वैष्णवानाम् ॥ ४० ॥
विष्णुपुराणात् ।
736
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः ॥ ४१ ॥
द्मपुराणात् ।
---------
अथ खेचरभूचरेषु पूर्वं सूर्यान्योक्तयः ॥ ४० ॥
737
रवेरेवोदयः श्लाघ्यः कोन्येषामुदयग्रहः ।
न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ १ ॥
738
खद्योतो द्योतते तावद्यावन्नोदयते शशी ।
उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः ॥ २ ॥
739
तस्यैवाभ्युदयो भूयाद्भानोर्यस्योदये सति ।
विकासभाजो जायन्ते गुणिनः कमलाकराः ॥ ३ ॥
केषामप्येते ।
740
देवो हरिर्वहतु वक्षसि कौस्तुभं त-
मन्यैव काचन पुनर्द्युमणे: प्रतिष्ठा ।
यत्पादसंगतितरंगितसौरभाणि
धत्ते स एव शिरसा सरसीरुहाणि ॥ ४ ॥
महादेवस्य ।
741
उद्यन्त्वमूनि सुबहूनि महामहांसि
चन्द्रोप्यलं भुवनमण्डलमण्डनाय ।
सूर्यादृते न तदुदेति न चास्तमेति
येनोदितेन दिनमस्तमितेन रात्रिः ॥ ५॥