शार्ङ्गधरपद्धतिः /129
This page has been fully proofread once and needs a second look.
शार्ङ्गधरपद्धतिः
परिहर मधुसूदनप्रपन्ना-
न्प्रभुरहमन्यनृणां न वैष्णवानाम् ॥ ४० ॥
विष्णुपुराणा
73
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः ॥ ४१ ॥
द्मपुराणा
---------
अथ खेचरभूचरेषु पूर्
737
रत्रे
रवेरेवोदयः श्ला
न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ १ ॥
738
खद्योतो द्योतते तावद्यावन्नोदयते शशी ।
उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः ॥ २ ॥
739
तस्यैवाभ्युदयो भूयाद्भानोर्यस्योदये सति ।
विकासभाजो जायन्ते गुणिनः कमलाकराः ॥ ३ ॥
केषामप्येते
740
देवो हरिर्वहतु वक्षसि कौस्तुभं त-
मन्यैव काचन पुनर्
यत्पादसंगतितरंगितसौरभाणि
धत्ते स एव शिरसा सरसीरुहाणि ॥ ४ ॥
महादेवस्य
741
उद्यन्त्वमूनि सुबहूनि महामहांसि
चन्द्रोप्यलं भुवनमण्डलमण्डनाय ।
सूर्यादृते न तदुदेति न चास्तमेति
येनोदितेन दिनमस्तमितेन रात्रिः ॥ ५॥