This page has not been fully proofread.

११४
 
शार्ङ्गधरपद्धतिः
 
परिहर मधुसूदनप्रपन्ना-
न्प्रभुरहमन्यनृणां न वैष्णवानाम् ॥ ४० ॥
 
विष्णुपुराणात ।
 
738
 
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः ॥ ४१ ॥
 
द्मपुराणात
 
अथ खेचरभूचरेषु पूर्व सूर्यान्योक्तयः ॥ ४० ॥
 
737
 
रत्रेरेवोदयः श्लाव्यः कोन्येपामुदयग्रहः ।
न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ १ ॥
 
738
 
खद्योतो द्योतते तावद्यावन्नोदयते शशी ।
उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः ॥ २ ॥
 
739
 
तस्यैवाभ्युदयो भूयाद्भानोर्यस्योदये सति ।
 
विकासभाजो जायन्ते गुणिनः कमलाकराः ॥ ३ ॥
 
केषामप्येते
 
740
 
देवो हरिहतु वक्षसि कौस्तुभं त-
मन्यैव काचन पुनर्क्युमणे: प्रतिष्ठा ।
यत्पादसंगतितरंगितसौरभाणि
 
धत्ते स एव शिरसा सरसीरुहाणि ॥ ४ ॥
महादेवस्य
 
741
 
उद्यन्त्वमूनि सुबहूनि महामहांसि
 
चन्द्रोप्यलं भुवनमण्डलमण्डनाय ।
 
सूर्यादृते न तदुदेति न चास्तमेति
 
येनोदितेन दिनमस्तमितेन रात्रिः ॥ ५॥