This page has been fully proofread once and needs a second look.

पातक वितृतिः
 

728
 

हृ
ते कांस्ये तु हारीतः कपोतो रौप्यभाजने ।

हत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रपद्यते ॥ ३३ ॥
 

729
 

मयूरो वर्णकान्हत्वा हहृत्वा हृते चैवांशुके शुकः ।

छुच्छुन्दरिः शुभान्गन्धान्वङ्गं हृत्वा शशो भवेत् ॥ ३४ ॥
 

730
 

भूनारीकाञ्चनगवां हर्ता गत्वा तु नारकान् ।

तृणगुल्मलता वल्लीत्वक्सारतरुतां लभेत् ॥ ३५ ॥
 
'731
 

एते मार्कण्डेयपुराणात् ।
 

731
सर्वपातकसंघातकक्षदावानलं परम् ।
 

गोविन्दनामकथनं गङ्गास्नानं च मे मतम् ॥ ३६ ॥
 

732
 

मुकुन्द दामोदर वासुदेव
 

 

श्रीकान्त चक्रायुध कृष्ण विष्णो ।

गोविन्द नारायण पद्मनाभ

त्रिविक्रमानन्त हरे नमस्ते ॥ ३७ ॥

एतौ शार्ङ्गधरस्य ।
 

733
 

तटस्थमुद्धृतं वापि शीतमुष्णमथापि वा ।
 

गाङ्गमम्बु पुनात्येव पापादामरणान्तिकात् ॥ ३८ ॥
 

कस्यापि ।
 

734
 

त्यज दुर्जनसंसर्गं भज साधुसमागमम् ।
 

कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यताम् ॥ ३९ ॥
 

कस्यापि ।
 

735
 
११३
 

स्वपुरुषमभिवीक्ष्य पाशहस्तं
 

वदति यमः किल तस्य कर्णमूले ।