This page has not been fully proofread.

पातक वितृतिः
 
728
 
हते कांस्ये तु हारीतः कपोतो रौप्यभाजने ।
हत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रपद्यते ॥ ३३ ॥
 
729
 
मयूरो वर्णकान्हत्वा हते चैवांशुके शुकः ।
छुच्छुन्दरिः शुभान्गन्धान्वङ्गं हत्वा शशो भवेत् ॥ ३४ ॥
 
730
 
भूनारीकाञ्चनगवां हर्ता गत्वा तु नारकान् ।
तृणगुल्मलता वल्लीत्वक्सारतरुतां लभेत् ॥ ३५ ॥
 
'731
 
एते मार्कण्डेयपुराणात् ।
 
सर्वपातकसंघातकक्षदावानलं परम् ।
 
गोविन्दनामकथनं गङ्गास्नानं च मे मतम् ॥ ३६ ॥
 
732
 
मुकुन्द दामोदर वासुदेव
 

 
श्रीकान्त चक्रायुध कृष्ण विष्णो ।
गोविन्द नारायण पद्मनाभ
त्रिविक्रमानन्त हरे नमस्ते ॥ ३७ ॥
एतौ शार्ङ्गधरस्य ।
 
733
 
तटस्थमुद्धृतं वापि शीतमुष्णमथापि वा ।
 
गाङ्गमम्बु पुनात्येव पापादामरणान्तिकात् ॥ ३८ ॥
 
कस्यापि ।
 
734
 
त्यज दुर्जनसंसर्ग भज साधुसमागमम् ।
 
कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यताम् ॥ ३९ ॥
 
कस्यापि ।
 
735
 
११३
 
स्वपुरुषमभिवीक्ष्य पाशहस्तं
 
वदति यमः किल तस्य कर्णमूले ।