This page has been fully proofread once and needs a second look.

११२
 
शार्ङ्गधरपद्धतिः
 

719
 

गर्दभो जायते जन्तुः पित्रोश्चाप्यवमानकः ।

मातापितरमाक्रुश्य शारिका संप्रजायते ॥ २४ ॥
 

720
 

भर्तृपिण्डं समश्नन्यस्तद्दुष्टानि निषेवते ।

सोपि मोहसमापन्नो जायते वानरो मृतः ॥२५॥
 

721
 

न्यासापहर्ता नरकाद्विमुक्तो जायते कृमि: ।

असूयकश् नरकान्मुक्तो भवति लावकः ॥२६॥
 
722
 

722
विश्वासहन्ता च नरो मीनयोनौ प्रपद्यते ।

अन्नापहारी च नरो मूषकः संप्रजायते ॥ २७ ॥

 

723
 

परदाराभिमर्षी च वृको घोरोभिजायते ।
 

गुरोः सख्युस्तथा राज्ञो भर्तुर्भार्यामुपेयिवान् ।

श्वसृगालबकोलूकव्यालसूकरतां लभेत् ॥ २८ ॥
 

724
 

देवतातिथिविप्राणामदच्यात्त्वा योनमभुते ।
 
न्नमश्नुते ।
प्रमुक्तो नरकात्सोपि वायसः संप्रजायते ॥ २९ ॥
 

725
 

ज्येष्ठ पितृसमं वापि भ्रातरं योवमन्यते ।

नरकात्सोपि विभ्रष्टः क्रौञ्चयोनौ प्रपद्यते ॥ ३० ॥
 

726
 

शुद्रश्च ब्राह्मणोंणीं गत्वा कृमियोनौ प्रपद्यते ।
 

तस्यामपत्यमुत्पाद्य काष्टाठान्तः कीटको भवेत् ॥ ३१ ॥
 
727
 

727
अशस्त्रं पुरुषं हत्वा नरः संजायते खरः ।

कृमि: स्त्रीवधकर्त्ता च बालहन्ता च जायते ॥ ३२ ॥