This page has not been fully proofread.

११२
 
शार्ङ्गधरपद्धतिः
 
719
 
गर्दभो जायते जन्तुः पित्रोश्चाप्यवमानकः ।
मातापितरमाक्रुश्य शारिका संप्रजायते ॥ २४ ॥
 
720
 
भर्तृपिण्डं समनन्यस्तद्दुष्टानि निषेवते ।
सोपि मोहसमापन्नो जायते वानरो मृतः ॥२५॥
 
721
 
न्यासापहर्ता नरकाद्विमुक्तो जायते कृमि: ।
असूयकश्र नरकान्मुक्तो भवति लावकः ॥२६॥
 
722
 
विश्वासहन्ता च नरो मीनयोनौ प्रपद्यते ।
अन्नापहारी च नरो मूषकः संप्रजायते ॥ २७ ॥

 
723
 
परदाराभिमर्षी च वृको घोरोभिजायते ।
 
गुरोः सख्युस्तथा राज्ञो भर्तुर्भार्यामुपेयिवान् ।
श्वसृगालबकोलूकव्याकरतां लभेत् ॥ २८ ॥
 
724
 
देवतातिथिविप्राणामदच्या योनमभुते ।
 
प्रमुक्तो नरकात्सोपि वायसः संप्रजायते ॥ २९ ॥
 
725
 
ज्येष्ठ पितृसमं वापि भ्रातरं योवमन्यते ।
नरकात्सोपि विभ्रष्टः क्रौञ्चयोनौ प्रपद्यते ॥ ३० ॥
 
726
 
शुद्रश्च ब्राह्मणों गत्वा कृमियोनौ प्रपद्यते ।
 
तस्यामपत्यमुत्पाद्य काष्टान्तः कीटको भवेत् ॥ ३१ ॥
 
727
 
अशस्त्रं पुरुषं हत्वा नरः संजायते खरः ।
कृमि: स्त्रीवधकर्त्ता च बालहन्ता च जायते ॥ ३२ ॥