This page has been fully proofread once and needs a second look.

११०
 
शार्ङ्गधरपद्धतिः
 

701
 

मित्त्रद्रुहः कृतन्घ्नस्य स्त्रीवीघ्नस्य पिशुनस्य च ।

चतुर्णामपि चैतेषां निष्कृतिं नैव श्रुश्रुमः ॥ ६ ॥
 

702
 

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।

महान्ति पातकान्याहुस्तत्संसर्गी च पञ्चमः ॥ ७ ॥
 

703
 

अकृतज्ञमकार्यज्ञं दीर्घरोमनार्जवम् ।
 

चतुरो विद्धि चाण्डालाञ्जन्मना सह पञ्चमम् ॥ ८ ॥
 

704
 

ब्रह्मघ्ने च सुरापे च चौरे भगवग्नव्रते तथा ।
 

निष्कृतिर्विहिता लोके कृतघ्ने नास्ति निष्कृतिः ॥ ९ ॥
 

धर्मशास्त्रेभ्य एते ।
 

705
 

ऋतुस्नातां तु यो भार्या नैव गच्छति मूढधीः ।

घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥ १० ॥
 

 
706
 

 
अदुष्टापतितां भार्यायां मूढो यस्तु परिष्त्यजेत् ।

सप्तजन्मनि स स्त्रीत्वं लभते नात्र संशयः ॥ ११ ॥
 
707
 

707
कूटसाक्षी मृषावादी यश्चासदनुशास्ति वै ।

ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः ॥ १२ ॥
 

708
 

रौरवं कूटसाक्षी तु याति यश्चानृतो नरः ।

कुम्भीपाकं प्रयात्येव मानवो गुरुतल्पगः ॥१३ ॥
 

मार्कण्डेयास् ।
 
त् ।
709
 

स्त्रीबालस्वामिमित्रघ्ना गोघ्ना विश्वासघातिनः ।
 

सुरापो ब्रह्महा चौरो यान्त्येते सर्वनारकान् ॥ १४ ॥