This page has not been fully proofread.

११०
 
शार्ङ्गधरपद्धतिः
 
701
 
मिचद्रुहः कृतन्नस्य स्त्रीनस्य पिशुनस्य च ।
चतुर्णामपि चैतेषां निष्कृतिं नैव श्रुश्रुमः ॥ ६ ॥
 
702
 
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
महान्ति पातकान्याहुस्तत्संसर्गी च पञ्चमः ॥ ७ ॥
 
703
 
अकृतज्ञमकार्यज्ञं दीर्घरोपमनार्जवम् ।
 
चतुरो विद्धि चाण्डालाञ्जन्मना सह पञ्चमम् ॥ ८ ॥
 
704
 
ब्रह्मने च सुरापे च चौरे भगवते तथा ।
 
निष्कृतिविहिता लोके कृतघ्ने नास्ति निष्कृतिः ॥ ९ ॥
 
धर्मशास्त्रेभ्य एते ।
 
705
 
ऋतुस्नातां तु यो भार्या नैव गच्छति मूढधीः ।
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥ १० ॥
 
706
 
अदुष्टापतितां भार्या मूढो यस्तु परिष्यजेत् ।
सप्तजन्मनि स स्त्रीत्वं लभते नात्र संशयः ॥ ११ ॥
 
707
 
कूटसाक्षी मृषावादी यश्चासदनुशास्ति वै ।
ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः ॥ १२ ॥
 
708
 
रौरवं कूटसाक्षी तु याति यश्चानृतो नरः ।
कुम्भीपाकं प्रयात्येव मानवो गुरुतल्पगः ॥१३ ॥
 
मार्कण्डेयास् ।
 
709
 
स्त्रीबालस्वामिमित्रघ्ना गोघ्ना विश्वासघातिनः ।
 
सुरापो ब्रह्महा चौरो यान्त्येते सर्वनारकान् ॥ १४ ॥