This page has been fully proofread once and needs a second look.

पातकविवृतिः
 

694
 

उपोष्यैकादशीः सर्वास्तथा कृष्णाश्चतुर्दशीः ।

ध्यात्वा हरिहरं देवं प्रामोप्नोति परमं पदम् ॥ ३० ॥
 

695
 

मोहादवाचीमबुधाः प्रतीचीं

प्राचीमुदीचीमपि पर्यटन्ति ।

सच्चिन्मये मानस एव तीर्थे
 

स्वच्छे सुखं खास्नातुमपारयन्तः ॥ ३१ ॥
 

--------------
अथ पातकविवृतिः ॥ ३९ ॥
 

696
 

कथं ते व्त्यक्तसद्वृत्ताः सुखं रात्रिषु शेरते ।

मरणान्तरिता येषां नरकेषूपपत्तयः ॥ १ ॥
 

697
 

कतिपयदिनपरमायुषि मदकारिणि यौवने दुरात्मानः ।

विदधति तथापराधं जन्मैव यथा वृथा भवति ॥ २ ॥
 

श्रीधनददेवानाम् ।
 
१०९
 

698
 

यद्वै रूप्यमनाथता विकलता नीचे कुले जन्मता

दारिद्र्यं स्वजनाच्च यत्परिभवो मौर्ख्यं परप्रेष्यता ।

तृष्णालौल्यमनिर्वृतिः कुशयनं कुस्खीत्री कुभोज्यं रुजः
 

सर्वं पापमहीरुहस्य महतो व्यक्तं फलं दृश्यते ॥ ३ ॥

कस्यापि ।
 

699
 

व्याधिर्वित्तविनाशः प्रियविरहो दुर्भगत्वमुद्देवेगः ।

सर्वत्राशाभङ्गः स्फुटं भवत्यकृतपुण्यस्य ॥ ४॥
 

700
 

त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः ।

अत्युग्रपुण्यपापानामिदैहैव फलमश्नुते ॥ ५ ॥