शार्ङ्गधरपद्धतिः /124
This page has not been fully proofread.
पातकविवृतिः
694
उपोष्यैकादशीः सर्वास्तथा कृष्णाचतुर्दशीः ।
ध्यात्वा हरिहरं देवं प्रामोति परमं पदम् ॥ ३० ॥
695
मोहादवाचीमबुधाः प्रतीचीं
प्राचीमुदीचीमपि पर्यटन्ति ।
सच्चिन्मये मानस एव तीर्थे
स्वच्छे सुखं खातुमपारयन्तः ॥ ३१ ॥
अथ पातकविवृतिः ॥ ३९ ॥
696
कथं ते व्यक्तसद्वृत्ताः सुखं रात्रिषु शेरते ।
मरणान्तरिता येषां नरकेषूपपत्तयः ॥ १ ॥
697
कतिपयदिनपरमायुषि मदकारिणि यौवने दुरात्मानः ।
विदधति तथापराधं जन्मैव यथा वृथा भवति ॥ २ ॥
श्रीधनददेवानाम् ।
१०९
698
यद्वै रूप्यमनाथता विकलता नीचे कुले जन्मता
दारिद्र्यं स्वजनाच यत्परिभवो मौर्य परप्रेष्यता ।
तृष्णालौल्यमनिर्वृतिः कुशयनं कुस्खी कुभोज्यं रुजः
सर्व पापमहीरुहस्य महतो व्यक्तं फलं दृश्यते ॥ ३ ॥
कस्यापि ।
699
व्याधिर्वित्तविनाशः प्रियविरहो दुर्भगत्वमुद्देगः ।
सर्वत्राशाभङ्गः स्फुटं भवत्यकृतपुण्यस्य ॥ ४॥
700
त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः ।
अत्युग्रपुण्यपापानामिदैव फल ॥ ५ ॥