This page has not been fully proofread.

१०८
 
शार्ङ्गधरपद्धतिः
 
685
 
यज्ञदानतपस्तीर्थ सेवाभिर्विजितेन्द्रियः ।
भौमेषु चान्तरिक्षेषु स्वर्गेषु मनुजो व्रजेत् ॥ २१ ॥
 
686
 
वसन्ति सुरलोकेषु निजपुण्यचयैर्नराः ।
विमानैर्विविधाकारैः सर्वकामसमृद्धिभिः ॥ २६ ॥
 
687
 
तेभ्यश्च प्रच्युता राज्ञामन्येषां च महात्मनाम् ।
जायन्ते सुखिनां गेहे सवृत्तपरिपालकाः ॥ २३ ॥
 
688
 
गायन्ति देवाः किल गीतकानि
स्वर्गापवर्गस्य च हेतुभूताः ।
धन्यास्तु ते भारतभूमिभागे
 
भवन्ति भूयः कृतिनः सुरत्वात् ॥ २४ ॥
 
689
 
पुनः कृत्वाद्भुतं कर्म पूर्वाभ्यासेन मानवाः ।
सुरलोकं प्रयान्त्येव भाग्यवन्तो जितेन्द्रियाः ॥ २५ ॥
 
690
 
परात्परतरं यान्ति नारायणपरायणाः ।
 
न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम् ॥ २६ ॥
 
391
 
वासुदेवे मनो यस्य जपहोमार्चनादिनु ।
 
तस्यान्तरायो विज्ञेयो देवेन्द्रत्वादिकं फलम् ॥ २७ ॥
 
692
 
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते द्वादशाक्षर चिन्तकाः ॥ २८ ।
 
693
 
षडक्षरेण मन्त्रेण पुष्पमेकमपि स्वयम् ।
 
लिङ्गस्य मूर्ध्नि यो दद्यात्स भूयोऽपि न जायते ॥ २९ ॥