शार्ङ्गधरपद्धतिः /122
This page has been fully proofread once and needs a second look.
अर्थाः स्त्रियश्च निपुणैरिह सेव्यमाना
नैवात्मभावमुपयान्ति न च स्थिरत्वम् ॥ १४ ॥
कस्यापि ।
679
यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो
यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महा-
न्संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ १५॥
भर्तृहरेः ।
680
धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्धनं
धर्मेणैव भवन्ति निर्मलयशोविद्यामहीसंपदः ।
कान्तारेषु महाभयेषु सततं धर्मः परित्रायते
धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः ॥१६॥
कस्यापि ।
681
यन्नागा मदभिन्नगण्डकरटास्तिष्ठन्ति निद्रालवो
द्वारे हेमविभूषिताश्च तुरगा
वीणावेणुमृदङ्गशङ्खपणवैः सुप्त
तत्सर्
कस्यापि ।
१०७
682
गङ्गोद्भेदे कुरुक्षेत्रे विश्रान्तौ मणिकर्णिके ।
वेण्यां गयाया
683
शरणागतरक्षार्
स्वाम्यर्थे यस्त्यजेत्प्राणांस्तस्य लोकाः सनातनाः ॥ १९ ॥
684
यो न कामा
यथोक्तकारी सौम्यश्च स सुखं मृत्युमृच्छति ॥ २० ॥