This page has not been fully proofread.

१०६
 
शार्ङ्गधरपद्धतिः
 
670
 
भूयतां धर्मसर्वस्त्रं श्रुत्वा चैवावधार्यताम् ।
आत्मन: प्रतिकूलानि परेषां न समाचरेत् ॥ ६ ॥
 
एतौ व्यासस्य ।
 
671
 
परलोकहितं तात प्रातरुत्थाय चिन्तय ।
 
इह ते कर्मणामेव विपाकश्चिन्तयिष्यति । ७ ॥
 
मदालसायाः
 
672
 
श्रेयो धनार्थिनां धर्मः कामिनां सर्वकामदः ।
धर्मोथवापवर्गस्य पारंपर्येण साधकः ॥ ८ ॥
 
673
 
इज्याध्ययनदानानि तपः सत्यं क्षमा दया ।
अलोभ इति मार्गोयं धर्मस्याटविधः स्मृतः ॥९॥
 
674
 
आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम् ।
प्रीतिः प्रसादो माधुर्य मार्दवं च यमा दश ॥१०॥
 
675
 
भावशुद्धिर्मनुष्यैस्तु कर्तव्या सर्वकर्मसु ।
अन्यथा चुम्ब्यते कान्ता भावेन दुहितान्यथा ॥११॥
 
676
 
कृत्वापि पातकं कर्म यो दद्यादन्नमर्थिने ।
ब्राह्मणाय विशेषेण न स पापेन लिप्यते ॥ १२ ॥
 
677
 
आ श्मशानान्निवर्तन्ते ज्ञातयः सह बान्धवैः ।
त्वयैकेनैव गन्तव्यं तत्कर्म सुकृतं कुरु ॥१३॥
 
केषामप्येते ।
 
678
 
धर्मे मतिर्भवतु वः सततोत्थितानां
सह्येक एव परलोकगतस्य बन्धुः ।