This page has been fully proofread once and needs a second look.

धर्मविवृतिः
 

 
रेवतीषु वसुदैवते च भे

नव्यवस्त्र परिधानमिष्यते ॥ ६६ ॥
 

664
 

रविर्नृपविलोकने मुसुरगुरुर्विवाहोत्सवे

रणे धरणिनन्दनो भृगुसुतः प्रयाणे बली ।

शनिस्तु खलु दीक्षणे सकलशास्त्रबोधे बुधः

शशी निखिलकर्मसु ध्रुवमुदाहृतः सूरिभिः ॥६७॥

एतानि धर्मशास्त्रपुराणज्योतिः शास्त्रेभ्यः ।
 

------------
अथ धर्मनिवृतिः ॥ ३८ ॥
 

665
 

ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।

धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥ १ ॥
 
663
 

666
यस्य धर्मविहीनस्य दिनान्यायान्ति यान्ति च ।

स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ २ ॥
 

667
 

परदारपरद्रव्यपरद्रोहपरान्गमुखः ।
 

गङ्गाप्याह कदागत्य मामयं पावयिष्यति ॥ ३ ॥
 

668
 

उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् ।

आयुष: खण्डमादाय रविरस्तं गमिष्यति ॥
 

 
11

केषामध्प्येते ।
 

669
 

अजरामरवलात्प्राज्ञो विद्यामर्थ वथं च चिन्तयेत् ।

गृहीत इव केशेषु मृत्युना धर्मभावमाचरेत् ॥ ५ ॥
 
१०५