This page has not been fully proofread.

धर्मविवृतिः
 
रेवतीषु वसुदैवते च भे
नव्यवस्त्र परिधानमिष्यते ॥ ६६ ॥
 
664
 
रविर्नृपविलोकने मुरगुरुविवाहोत्सवे
रणे धरणिनन्दनो भृगुसुतः प्रयाणे बली ।
शनिस्तु खलु दीक्षणे सकलशास्त्रबोधे बुधः
शशी निखिलकर्मसु ध्रुवमुदाहृतः सूरिभिः ॥६७॥
एतानि धर्मशास्त्रपुराणज्योतिः शास्त्रेभ्यः ।
 
अथ धर्मनिवृतिः ॥ ३८ ॥
 
665
 
ऊर्ध्वबाहुविरौम्येष न च कश्चिच्छृणोति मे ।
धर्मादर्थश्च कामश्च स किमर्थ न सेव्यते ॥ १ ॥
 
663
 
यस्य धर्मविहीनस्य दिनान्यायान्ति यान्ति च ।
स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ २ ॥
 
667
 
परदारपरद्रव्यपरद्रोहपरामुखः ।
 
गङ्गाप्याह कदागत्य मामयं पावयिष्यति ॥ ३ ॥
 
668
 
उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् ।
आयुष: खण्डमादाय रविरस्तं गमिष्यति ॥
 

 
11
केषामध्येते ।
 
669
 
अजरामरवलाज्ञो विद्यामर्थ व चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्मभावरेत् ॥ ५ ॥
 
१०५