This page has been fully proofread once and needs a second look.

१०२
 
शार्ङ्गधरपद्धतिः
 

 
640
 

राज्ञां दत्वा तु षड़ाड्भागं देवतानां च विंशतिः ।

त्रिंशद्दत्वा च विप्राणां कार्पूपुको नावसीदति ॥ ४३ ॥
 

641
 

चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् ।

उत्थाय चासनं दद्यादेष धर्मः सनातनः ॥ ४४ ॥
 

642
 

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।

सतामेतानि हर्म्येषु नानोच्छिद्यन्ते कदाचन ॥ ४५ ॥
 

643
 
मा

ग्रा
सादर्धमपि ग्रासमर्थिभ्यः किं न यच्छसि ।

इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥ ४६ ॥
 
644
 

644
उष्णकाले जलं दद्याच्छीतकाले हुताशनम् ।

प्रावटावृट्काले गृहं देयं सर्वकालेषु भोजनम् ॥ ४७ ॥
 

645
 

अवृत्तिव्याधिशोकार्ताननुवर्तेत शक्तितः ।

आत्मवत्सततं पश्येदपि कीटपिपीलकम् ॥ ४८ ॥
 
646
 

646
गां पापङ्काद्ब्राह्मणोंणीं दास्याहृद्वृत्तिं लोपाहिद्विजं वधात् ।

मोचयन्मुच्यते जन्तुः पापादा मरणान्तिकात् ॥ ४९ ॥
 

647
 

न कश्चिदपि जानाति किं कस्य श्वो भविष्यति ।

अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥ ५० ॥
 

648
 

अनेन मर्त्यदेहेन यल्लोकद्वयशर्मदम् ।
 

विचिन्त्य तदनुष्ठेयं हेयं कर्म ततोन्यथा ॥ ५१ ॥