This page has not been fully proofread.

१०२
 
शार्ङ्गधरपद्धतिः
 
640
 
राज्ञां दत्वा तु षड़ागं देवतानां च विंशतिः ।
त्रिंशद्दत्वा च विप्राणां कार्पूको नावसीदति ॥ ४३ ॥
 
641
 
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच सूनृताम् ।
उत्थाय चासनं दद्यादेष धर्मः सनातनः ॥ ४४ ॥
 
642
 
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
सतामेतानि हर्म्येषु नाच्छिद्यन्ते कदाचन ॥ ४५ ॥
 
643
 
मासादर्धमपि ग्रासमर्थिभ्यः किं न यच्छसि ।
इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥ ४६ ॥
 
644
 
उष्णकाले जलं दद्याच्छीतकाले हुताशनम् ।
प्रावटाले गृहं देयं सर्वकालेषु भोजनम् ॥ ४७ ॥
 
645
 
अवृत्तिव्याधिशोकार्ताननुवर्तेत शक्तितः ।
आत्मवत्सततं पश्येदपि कीटपिपीलकम् ॥ ४८ ॥
 
646
 
गां पाद्ब्राह्मणों दास्याहृत्तिं लोपाहिजं वधात् ।
मोचयन्मुच्यते जन्तुः पापादा मरणान्तिकात् ॥ ४९ ॥
 
647
 
न कश्चिदपि जानाति किं कस्य वो भविष्यति ।
अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥ ५० ॥
 
648
 
अनेन मर्त्यदेहेन यल्लोकद्वयशर्मदम् ।
 
विचिन्त्य तदनुष्ठेयं हेयं कर्म ततोन्यथा ॥ ५१ ॥