This page has been fully proofread once and needs a second look.

सदाचारः
 

631
 

हस्तद्यस्थितैःतैर्दर्भैः समाचामति यो द्विजः ।

सोमपानफलं तस्य भुक्त्वा यज्ञफलं लभेत् ॥ ३४ ॥
 

632
 

गृहेपि निवसन्विप्रो मुनिमौमांसविवर्जनात् ।

मांसादोन्योपि मांसस्य त्यागात्स्वर्गं व्रजेब्द्ध्रुवम् ॥ ३५ ॥
 
633
 

633
आत्मार्थं यः पशुं हन्यात्सोवश्यं नरकं व्रजेत् ।

देवान्पितॄन्समभ्यर्च्य खादन्मांसं न दोषभाक् ॥ ३६ ॥
 

634
 

अनभिध्यां परस्त्रेवेषु सर्वसत्त्रेवेषु सौहृदम् ।

कर्मणां फलमस्तीति मनसा त्रितयं चरेत् ॥ ३७ ॥
 

635
 

प्राणातिपातं स्तैन्यं च परदाराभिमर्शनम् ।
 

त्रीणि पापानि कायेन नित्यशः परिवर्जयेत् ॥ ३८ ॥
 
१०१
 
636
 

636
असत्प्रलापं पारुष्यं वैपैशुन्यमनृतं तथा ।
 

चत्वारि वाचा राजेन्द्र न जल्पेन्न च चिन्तयेत् ॥ ३९ ॥
 

637
 

अहिंसा सत्यवचनं सर्वभूतानुकम्पनम् ।
 

शमो दानं यथाशक्ति गार्हस्थो धर्म उच्यते ॥ ४० ॥
 

638
 

देवान्पितॄन्मनुष्यांश्च भृत्यान्गृह्याश्च देवताः ।

भोजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति ॥ ॥
 
४१ ॥
 

639
 

वृक्षांवाश्छित्त्वा महीं सिभित्वा हत्त्वा कीटपिपीलकान् ।

दत्त्वान्नं कार्षुकोर्थिभ्यः सर्वपापैः प्रमुच्यते ॥ ४२ ॥