This page has not been fully proofread.

सदाचारः
 
631
 
हस्तद्यस्थितैः समाचामति यो द्विजः ।
सोमपानफलं तस्य भुक्त्वा यज्ञफलं लभेत् ॥ ३४ ॥
 
632
 
गृहेपि निवसन्विप्रो मुनिमौसविवर्जनात् ।
मांसादोन्योपि मांसस्य त्यागात्स्वर्ग जेब्रुवम् ॥ ३५ ॥
 
633
 
आत्मार्थं यः पशुं हन्यात्सोवश्यं नरकं व्रजेत् ।
देवान्पितॄन्समभ्यर्च्य खादन्मांस न दोषभाक् ॥ ३६ ॥
 
634
 
अनभिध्यां परस्त्रेषु सर्वसत्त्रेषु सौहृदम् ।
कर्मणां फलमस्तीति मनसा त्रितयं चरेत् ॥ ३७ ॥
 
635
 
प्राणातिपातं स्तैन्यं च परदाराभिमर्शनम् ।
 
त्रीणि पापानि कायेन नित्यशः परिवर्जयेत् ॥ ३८ ॥
 
१०१
 
636
 
असमलापं पारुष्यं वैशुन्यमनृतं तथा ।
 
चत्वारि वाचा राजेन्द्र न जल्पेन्न च चिन्तयेत् ॥ ३९ ॥
 
637
 
अहिंसा सत्यवचनं सर्वभूतानुकम्पनम् ।
 
शमो दानं यथाशक्ति गार्हस्थो धर्म उच्यते ॥ ४० ॥
 
638
 
देवान्पितॄन्मनुष्यांच भृत्यान्गृह्याच देवताः ।
भोजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति ॥ ॥
 
४१ ॥
 
639
 
वृक्षांवा महीं सित्वा हत्वा कीटपिपीलकान् ।
दत्त्वानं कार्षुकोर्थिभ्यः सर्वपापैः प्रमुच्यते ॥ ४२ ॥