This page has been fully proofread once and needs a second look.

१००
 
शार्ङ्गधरपद्धतिः
 
622
 

622
जलं पिवेबेन्नाञ्जिलना शयानं न प्रबोधयेत् ।
 

परान्नं वा चरन्तीं गां धयन्तीं च न वारयेत् ॥ २५ ॥
 

623
 

शय्यादीपा धमस्तम्भच्छायां दूरेण संत्यजेत् ।

नर्मालापं न कुर्वीत धीमानसहनैः सह ॥ २६ ॥
 

624
 

नोर्ध्वजानुश्चिरं तिटेष्ठेन्नस्यादुत्कटकासनः ।
 

न नासिकां विकुष्णीयान्न स्वयं कर्तयेन्नखान् ॥ २७ ॥
 

625
 

सर्वथा संत्यजेद्वादं न कंचिन्मर्मणि स्पृशेत् ।

सर्वान्परित्यजेदर्थान्स्वाध्यायस्य विरोधिनः ॥ २८ ॥
 
626
 

626
कुशं स्वर्णं सदा धार्यं बहिर्माल्यं न धारयेत् ।

नागन्धं विबिभृयात्पुष्पं नात्मार्थं गुम्फयेत्स्रजम् ॥ २९ ॥
 

627
 

नित्यमामलके लक्ष्मीर्नित्यं हरितगोमये ।
 

नित्यं शंखे च पद्मे च नित्यं शुक्ले च वाससि ॥ ३० ॥
 

628
 

बालार्कं प्रेतधूमं च वृद्धां स्त्रीं पल्वलोदकम् ।

आयुष्कामो न सेवेत रात्रौ च दधिभोजनम् ॥ ३१ ॥
 

629
 

नोत्सङ्गे भक्षयेन्नाश्नन्मौलिं भूमिं च संस्पृशेत् ।

क्वचिद्रच्छेन्न चोच्छिष्टः पश्येज्ज्योतींषि नाशुचिः ॥ ३२ ॥
 

630
 

ब्राह्मणो ब्रह्मतीर्थेन त्रिद्भिः समुपस्पृशेत् ।

कुर्वन्नाचमनं विष्णुमोमोंकारं चापि संस्मरेत् ॥ ३३ ॥