This page has been fully proofread once and needs a second look.

९८
 
शार्ङ्गधरपद्धतिः
 

 
604
 

देवाधिकारिणो म्लेच्छान्विकर्मस्थान्द्विजानपि ।

विलोक्योपस्पृशेत्स्पृष्ट्वा सवासा जलमाविशेत् ॥ ७ ॥
 

605
 

अजाश्वं मुखतो मेध्यं गावो मेध्यास्तु पृष्ठतः ।

ब्राह्मणाः पादतो मेव्ध्याः स्त्रियो मेध्यास्तु सर्वतः ॥ ८ ॥
 
606
 

606
नास्ति यज्ञः स्त्रिया: किंचिन्न व्रतं नोपवासकः ।

या तु भर्तरि शुश्रूषा तथा स्वर्गया स्वर्गं जयत्यसौ ॥ ९ ॥
 

607
 

मृते भर्तरि या नारी ब्रह्मचर्ये व्यवस्थिता ।

मृता सा लभते स्वर्गं यथा ते ब्रह्मचारिणः ॥ १० ॥
 

608
 

तिस्रः कोट्योर्धकोटिश्च यानि लोमानि मानुषे ।

तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति ॥ ११ ॥
 

609
 

व्यालग्राही यथा व्यालं बिलादुद्धरते बलात् ।

एवं पतिं समुद्धृत्य नारी स्वर्गेषु मोदते ॥ १२ ॥
 

610
 

पृथक्वितां समारुह्य न विप्रा गन्तुमर्हति ।

भर्तृदेहेन या याति तस्या लोकाः सनातनाः ॥ १३ ॥
 

611
 
दशांच

शुचि
भूमिगतं तोयं शुचिर्नारी पतिव्रता ।

शुचि: क्षेमकरीरो राजा संतोषी ब्राह्मणः शुचिः ॥ १४ ॥
 

612
 

नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने ।

वत्सोपि स्तनपाने स्याच्छाछ्वा मृगग्रहणे शुचिः ॥ १५ ॥