This page has not been fully proofread.

९८
 
शार्ङ्गधरपद्धतिः
 
604
 
देवाधिकारिणो म्लेच्छान्विकर्मस्थान्द्विजानपि ।
विलोक्योपस्पृशेत्स्पृष्ट्वा सवासा जलमाविशेत् ॥ ७ ॥
 
605
 
अजावं मुखतो मेध्यं गावो मेध्यास्तु पृष्ठतः ।
ब्राह्मणाः पादतो मेव्याः स्त्रियो मेध्यास्तु सर्वतः ॥ ८ ॥
 
606
 
नास्ति यज्ञः स्त्रिया: किंचिन्न व्रतं नोपवासकः ।
या तु भर्तरि शुश्रूषा तथा स्वर्ग जयत्यसौ ॥ ९ ॥
 
607
 
मृते भर्तरि या नारी ब्रह्मचर्ये व्यवस्थिता ।
मृता सा लभते स्वर्ग यथा ते ब्रह्मचारिणः ॥ १० ॥
 
608
 
तिस्रः कोटयोर्धकोटिश्च यानि लोमानि मानुषे ।
तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति ॥ ११ ॥
 
609
 
व्यालग्राही यथा व्यालं बिलादुद्धरते बलात् ।
एवं पतिं समुद्धृत्य नारी स्वर्गेषु मोदते ॥ १२ ॥
 
610
 
पृथक्वितां समारुह्य न विप्रा गन्तुमर्हति ।
भर्तृदेहेन या याति तस्या लोकाः सनातनाः ॥ १३ ॥
 
611
 
दशांच भूमिगतं तोयं शुचिर्नारी पतिव्रता ।
शुचि: क्षेमकरी राजा संतोषी ब्राह्मणः शुचिः ॥ १४ ॥
 
612
 
नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने ।
वत्सोपि स्तनपाने स्याच्छा मृगग्रहणे शुचिः ॥ १५ ॥