This page has been fully proofread once and needs a second look.

सदाचारः
 

597
 

आहत्याहत्य मूर्ध्ना द्रुतमनुपिबत: प्रस्तुतं मातुरूधः

किंचित्कुब्जैकजानोरनवरतचलच्चारुपुच्छस्य धेनु: ।

उत्तीर्णं तर्णकस्य प्रियतनयतया दत्तहुंकार मुद्रा

विस्रंसिक्षीरधारालवशबलमुखस्याङ्गमातृप्ति लेढि ॥ २९ ॥
 

मयूरस्य ।
 

----------
अथ सदाचारः ॥ ३७ ॥
 

598
 

श्रोत्रियं सुभगामग्निं साग्निं गां धार्मिकं नदीम् ।

प्रातरुत्थाय यः पश्येदापद्भ्यः स प्रमुच्यते ॥ १ ॥
 

599
 

पापिष्ठं दुर्भागामन्त्यं नग्नमुत्कृत्तनासिकम् ।
 

अप्रियं प्रातरुत्थाय पश्यन्कलिमवामुप्नुयात् ॥ २ ॥
 

600
 

प्रेतधूमे विरेके च वान्तौ च क्षुरकर्मणि ।

दुःस्त्रमेवप्ने दुर्जनस्पर्शे स्नानमात्रं विधीयते ॥ ३ ॥
 

601
 

उदक्यापतितम्लेच्छ चाण्डालाद्यभिभाषणे ।

मार्जार मूषकस्पर्शे विण्मूत्रोत्सर्गदर्शने ॥ ४ ॥
 

602
 

अशुचीक्षणेश्रुपाते कलहे श्वासकासयोः ।

रथ्यामसर्पणेभ्यङ्गे- क्षुते नर्मण्युपस्पृशेत् ॥ ५ ॥
 
९७
 

603
 

कुर्यादाच मनाभावे भास्करस्यावलोकनम् ।

स्पृशेहाद्वा सार्द्रतृणगोगोविड्भूदक्षिणश्रुतीः ॥ ६ ॥