This page has not been fully proofread.

सदाचारः
 
597
 
आहत्याहत्य मूर्ध्ना द्रुतमनुपिबत: प्रतं मातुरूधः
किंचित्कुब्जैकजानोरनवरतचलच्चारुपुच्छस्य धेनु: ।
उत्तीर्ण तर्णकस्य प्रियतनयतया दत्तहुंकार मुद्रा
विस्रंसिक्षीरधारालवशबलमुखस्याङ्गमातृप्ति लेढि ॥ २९ ॥
 
मयूरस्य ।
 
अथ सदाचारः ॥ ३७ ॥
 
598
 
श्रोत्रियं सुभगामग्निं सानिं गां धार्मिक नदीम् ।
प्रातरुत्थाय यः पश्येदापद्भ्यः स प्रमुच्यते ॥ १ ॥
 
599
 
पापिष्ठं दुर्भागामन्त्यं नममुत्कृत्तनासिकम् ।
 
अप्रियं प्रातरुत्थाय पश्यन्कलिमवामुयात् ॥ २ ॥
 
600
 
प्रेतधूमे विरेके च वान्तौ चक्षुरकर्मणि ।
दुःस्त्रमे दुर्जनस्पर्शे स्नानमात्रं विधीयते ॥ ३ ॥
 
601
 
उदक्यापतितम्लेच्छ चाण्डालाद्यभिभाषणे ।
मार्जार मूषकस्पर्शे विमूत्रोत्सर्गदर्शने ॥ ४ ॥
 
602
 
अशुचीक्षणेश्रुपाते कलहे श्वासकासयोः ।
रथ्यामसर्पणेभ्यङ्गे- क्षुते नर्मण्युपस्पृशेत् ॥ ५ ॥
 
९७
 
603
 
कुर्यादाच मनाभावे भास्करस्यावलोकनम् ।
स्पृशेहा साईतृणगोगोविउदक्षिणश्रुतीः ॥ ६ ॥