शार्ङ्गधरपद्धतिः /111
This page has not been fully proofread.
  
  शार्ङ्गधरपद्धतिः
  
592
   
लीढव्यस्त विपाण्डुरायनस्खयोराकर्णदीर्ण मुखं
विन्यस्याग्रिमयोर्युगे चरणयोः सद्यो विभिन्नाद्वेपः ।
एतस्मिन्मदगन्धवासितसट: सावज्ञतिर्यग्वल-
त्सृक्कान्ताहतिधूतलोलमधुपः कुञ्जेषु शेते हरिः ॥ २४ ॥
   
593
   
अम्भोमुचां सलिलमुद्रमतां निशीथे
तालीवनेषु निभृतस्थित कर्णतालाः ।
आकर्णयन्ति करिणोर्धनिमीलिताक्षा
   
धारारवान्दशनकोटिनिषण्णहस्ताः ।॥ २५ ॥
   
कस्यापि ।
   
594
   
नयनपथ निरोधक्रोध निर्धूतभाल-
भ्रमदविरलरोमस्तोमवद्धान्धकारः ।
   
कृमिकवलनलोभोल्खातवल्मीकरन्ध्रो-
स्थितफणिफणघातैरुच्छलत्येष भलः ॥ २६ ॥
   
:
   
भदनस्य ।
   
595
   
यदकशुक्लान्तः स्फुरदरुणपुष्पोदरधिया
   
प्रविष्टो नासान्तः कणितमलिडिम्भ: प्रकुरुते ।
कपिः स्थित्वा स्थित्वा तदिदमनुशृण्वन्विचकितो
धुनोत्यास्यं रौति प्रचलति चलत्युच्छलति च ॥ २७ ॥
   
कस्यापि ।
   
596
   
गर्जित्वा मेघधीरं प्रथममथ शनैर्मण्डलीकृत्य देहं
श्रृङ्गाभ्यां भीषयन्तावभिमुखमवनिं दारयन्तौ खुरात्रैः ।
मन्दं मन्दं समेत्य स्थिरतिपदं दत्तघाती सरोषं
युध्येते चालयन्ती कुटिलितम सकृत्पुच्छमेतौ महोक्षौ ॥ २८ ॥