This page has been fully proofread once and needs a second look.

जाति:
 

587
 

पार्श्वस्फालावलेपाच्चटुलित चरणोल्लेखिता का शदेशः

संघट्टाटोपकोपप्रकटितरसनापल्लवालीढसृक्कः ।

किंचित्साचीकृतास्यः स्फुरदधरपुटः स्फारिताताम्रचक्षु-

र्
घोराघाताभिलाषादपसरति रुष दर्शयेन्नेष मेषः ॥ १९ ॥
 

शकवर्मणः ।
 

588
 
मी

ग्री
ष्मादित्यकरप्रतप्तासेकता तसिकतामध्योपविष्टः सुखं

शेते गौरखरो मरुस्थलभुवि प्रोथं विधाय क्षितौ ॥

गुञ्जज्जा हक कण्टकाहतमरुद्भूतोत्पतद्धूलिभि-

श्छन्नाङ्गः कृकलासकोपि निभृतं मार्तण्डमुद्दीवीक्षते ॥ २० ॥
 

589
 

मार्गं देहि पदं निधेहि निभृतं शब्दं समाकर्णय
 

श्वानं वारय कन्दलात्कलकलः कोयं सखे तावकः ।
 

इत्यन्योन्यमनेकधा मृगवधव्यापारपारंगमै-

र्
व्याधैः कोप्यधिको रसः प्रतिपदं जल्पद्भिरुत्पाद्यते ॥ २१ ॥
 

पुष्पाकरस्य ।
 
९५
 

590
 

वामस्कन्धनिषण्ण शार्ङ्ग कुटिलप्रान्तार्पिताधोमुख-

स्यन्द च्छोणितलम्बमानशशकान्वेणी स्खल च्चामरान् ।

ज्यान्तप्रोत कपोत पोतनिपतद्रक्ताक्ततूणीरका-

न्सोपश्यत्करिकुम्भभेदजनिताक्रन्दान्पुलिन्दान्पुरः ॥ २२ ॥
 

क्षेमेन्द्रस्य ।
 

591
 

गर्जन्हरिः साम्भसि शैलकुञ्जे
 

प्रतिध्वनीनात्मकृतान्निशम्य ।
 

पदं बबन्ध क्रमितुं सरोषः

प्रतर्कयन्नन्यमृगेन्द्रनादम् ॥ २३ ॥
 

भद्रस्वामिनः ।