This page has not been fully proofread.

जाति:
 
587
 
पार्श्वस्फालावलेपाचटुलित चरणोल्लेखिता का शदेशः
संघट्टाटोपकोपप्रकटितरसनापल्लवालीढसृकः ।
किंचित्साचीकृतास्यः स्फुरदधरपुटः स्फारिताताम्रचक्षु-
घोराघाताभिलाषादपसरति रुष दर्शयेन्नेष मेषः ॥ १९ ॥
 
शकवर्मणः ।
 
588
 
मीष्मादित्यकरप्रतप्तासेकता मध्योपविष्टः सुखं
शेते गौरखरो मरुस्थलभुवि प्रोथं विधाय क्षितौ ॥
गुञ्जज्जा हक कण्टकाहतमरुद्भूतोत्पतद्धूलिभि-
श्छन्नाङ्गः कृकलासकोपि निभृतं मार्तण्डमुद्दीक्षते ॥ २० ॥
 
589
 
मार्ग देहि पदं निधेहि निभृतं शब्दं समाकर्णय
 
श्वानं वारय कन्दलात्कलकलः कोयं सखे तावकः ।
 
इत्यन्योन्यमनेकधा मृगवधव्यापारपारंगमै-
व्यधैः कोप्यधिको रसः प्रतिपदं जल्पद्भिरुत्पाद्यते ॥ २१ ॥
 
पुष्पाकरस्य ।
 
९५
 
590
 
वामस्कन्धनिषण्ण शार्ङ्ग कुटिलप्रान्तार्पिताधोमुख-
स्यन्द च्छोणितलम्बमानशशकान्वेणी स्खल चामरान् ।
ज्यान्तप्रोत कपोत पोतनिपतद्रक्ताक्ततूणीरका-
न्सोपश्यत्करिकुम्भभेदजनिताक्रन्दान्पुलिन्दान्पुरः ॥ २२ ॥
 
क्षेमेन्द्रस्य ।
 
591
 
गर्जन्हरिः साम्भसि शैलकुञ्जे
 
प्रतिध्वनीनात्मकृतानिशम्य ।
 
पदं बबन्ध क्रमितुं सरोषः
प्रतर्कयन्नन्यमृगेन्द्रनादम् ॥ २३ ॥
 
भद्रस्वामिनः ।