This page has not been fully proofread.

९४
 
शार्ङ्गधरपद्धतिः
 
582
 
विलासमसृणोल्लसन्मुसललोलदो: कन्दली-
परस्पर परिस्खलद्वलयनि:स्वनोद्वन्धुराः ।
लसन्ति कलहुंकृतिप्रसभकम्पितोर: स्थल-
त्रुटद्गमकसंकुला: कलमकण्डनीगीतयः ॥ १४ ॥
 
विज्जकायाः ।
 
583
 
आकर्षन्निव गां त्रमन्निव खुरी पञ्चार्धमुज्झन्निव
त्वीकुर्वन्निव खं पिवन्निव दिशो वायूंच मुष्णन्निव ।
साङ्गारप्रकरां स्पृशनिव भुवं छायाममृप्यन्निव
प्रेङ्खच्चामरवीज्यमानवदनः श्रीमान्दयो धावति ॥ १५ ॥
 
सिंहदत्तस्य ।
 
584
 
पुरो नुन्नः पश्चाजति विधृतथोच्छ्रिततनुः
समुत्पत्योत्तानः पतति पथि लोकान्प्रविशति ।
हयः किंचिद्रच्छेद्यदि नयति पत्ति कचिदहो
कशाघाते तिष्ठत्यथ चरणघातेन खनति ॥ १६ ॥
सूक्तिसहस्रात् ।
 
585
 
ती
 
आत्रायात्राय गन्धं विकटमुखपुटो दर्शयन्दन्त पि
धावत्युन्मुक्तनादो मुहुरपि च रसाइष्टया पृष्ठलमः ।
गर्दभ्या पादघातद्विगुणितसुरतप्रीतिराकृष्टशिश्रो
वेगादारुह्य मुह्यन्नवतरति खरः खण्डितेच्छश्चिरेण ॥ १७ ॥
 
मयूरस्य ।
 
586
 
प्रात्वा श्रोणीमजाया विततमभिमुखं वक्त्रसंकोचभङ्गं
स्थित्वा सूर्ये निरीक्ष्य प्रावकसितसटो घट्टयन्क्ष्मां खुरेण ।
बोबो कारान्प्रकुर्वन्मणि शकलनिभं चालयक्षेत्रयुग्मं
छागश्चाटूननेकांश्चतुर इव विटो मन्मथान्धः करोति ॥ १८ ॥
 
कस्यापि ।