This page has been fully proofread once and needs a second look.

दूरात्स्मेरमुखः प्रसार्य ललितं बाहुद्वयं बालको
नाधन्यस्य पुरः समेति परया प्रीत्या रटन्घर्घरम् ॥ ८॥
उत्कटस्य ।
577
अकूर्चारम्भोपि प्रति चिबुकदेशं करतलं
प्रतिज्ञायां कुर्वन्युवतिषु दृशं स्निग्धतरलाम् ।
कुमारोहंकारात्परिषदि समानानगणय -
न्भुजौ वक्षः पश्यन्नववयसि कान्तिं वितनुते ॥ ९ ॥
शार्ङ्गधरस्य ।
578
खड्गहस्तोरिमालोक्य हर्षामर्षसमन्वितः ।
शूर: पुलकितो रक्तनेत्रो हसति जृम्भते ॥ १० ॥
लक्ष्मीधरस्य ।
579
गायति हसति च नृत्यति हृदयेन धृतां प्रियां विचिन्तयति ।
समविषमं न च विन्दति गृहगमनसमुत्सुकः पथिकः ॥ ११ ॥
कस्यापि ।
580
मातर्धर्मपरे दयां कुरु मयि श्रान्तेद्य वैदेशिके
द्वारालिन्दककोणके सुनिभृतं यास्यामि सुप्त्वा निशि ।
इत्युक्ते सहसा प्रचण्डगृहिणीवाक्येन निर्भर्त्सितः
स्कन्धन्यस्तपलालमुष्टिविभवः पान्थः पुनः प्रस्थितः ॥ १२ ॥
रविदत्तस्य ।
581
भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तवोद्धुष्यते
स्थाने रूपमनुत्तमं सुकृतिना दानेन कर्णो जितः ।
इत्यालोक्य भृशं दृशा करुणया शीतातुरेण स्तुत:
पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः ॥ १३ ॥
कस्यापि ।