This page has been fully proofread once and needs a second look.

प्रश्नोत्तराख्यानम्
 

इति यदि शतकृत्व स्तत्वमालोचयाम-

स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ॥ १६ ॥
 

पूर्वार्धेधं शिक्षां ददतो गुरोरुक्तिः । उत्तरार्धेधं च राजकन्यानुर-

क्तस्य बिल्हणस्य भित्तिलेखप्रत्युक्तिः ।
 

567
 

अङ्गणं तदिदमुन्मदद्विप-

श्रेणिशोणितविहारिणो हरेः ।

उल्लसत्तरुण केलिपल्लवां
 

शल्लकीं त्यजति किं मतङ्गजः ॥ १७ ॥
 

पूर्वार्धं तच्चित्तपरीक्षिकाया राजकन्याया उक्तिः । उत्तरार्ध तद-
धं तद-
नुरक्तस्य विबिल्हणस्य प्रत्युक्तिः
 

 

588
 

निरर्थकं जन्म गतं नलिन्या
 
९१
 

यया न दृष्टं तुहिनांशुबिम्बम् ।

उत्पत्तिरिन्दोरपि निष्फलैव
 

दृष्टा विनिद्रा नलिनी न येन ॥ १८ ॥
 

पूर्वार्धं राजकन्यानुरक्तस्य बिल्हणस्योक्तिः । उत्तरार्धं तदनुरक्त-

चित्ताया राजकन्यायाः ।
 

-------------
अथ जातिः ॥ ३६ ॥
 

569
 

मण्डलीकृत्य र्हाणि कण्ठै र्पर्मधुर गीतिभिः ।
 

कलापिन: प्रनृत्यन्ति काले जीमूतमालिनि ॥ १ ॥
 

570
 

कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः ।
 

पारावत: परावृत्य रिरंसुश्रुचुम्बति प्रियाम् ॥ २ ॥
 

एतौ दण्डिनः ।