This page has not been fully proofread.

प्रश्नोत्तराख्यानम्
 
इति यदि शतकृत्व स्तत्वमालोचयाम-
स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ॥ १६ ॥
 
पूर्वार्धे शिक्षां ददतो गुरोरुक्तिः । उत्तरार्धे च राजकन्यानुर-
क्तस्य बिल्हणस्य भित्तिलेखप्रत्युक्तिः ।
 
567
 
अङ्गणं तदिदमुन्मदद्विप-
श्रेणिशोणितविहारिणो हरेः ।
उल्लसत्तरुण केलिपलवां
 
शल्लकीं त्यजति किं मतङ्गजः ॥ १७ ॥
 
पूर्वार्ध तच्चित्तपरीक्षिकाया राजकन्याया उक्तिः । उत्तरार्ध तद-
नुरक्तस्य विल्हणस्य प्रत्युक्तिः
 

 
588
 
निरर्थकं जन्म गतं नलिन्या
 
९१
 
यया न दृष्टं तुहिनांशुबिम्बम् ।
उत्पत्तिरिन्दोरपि निष्फलैव
 
दृष्टा विनिद्रा नलिनी न येन ॥ १८ ॥
 
पूर्वार्ध राजकन्यानुरक्तस्य बिल्हणस्योक्तिः । उत्तरार्ध तदनुरक्त-
चित्ताया राजकन्यायाः ।
 
अथ जातिः ॥ ३६ ॥
 
569
 
मण्डलीकृत्य वर्हाणि कण्ठै र्पधुर गीतिभिः ।
 
कलापिन: प्रनृत्यन्ति काले जीमूतमालिनि ॥ १ ॥
 
570
 
कलकणितगर्भेण कण्ठेनाघूर्णितेक्षणः ।
 
पारावत: परावृत्य रिरंसुश्रुम्बति प्रियाम् ॥ २ ॥
 
एतौ दण्डिनः ।