This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

 
पूर्वार्धं मृगयाया गृहमागच्छतः शिविबिकारूढस्य भोजराजस्योक्तिः ।

उत्तरार्धं च राजदर्शनार्थं छद्मशिविबिकावाहपण्डितस्य प्रत्युक्तिः ।
 

563
 

यदेतच्चन्द्रान्त र्जलदलवलीलां वितनुते
 

तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।

अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी-

कटाक्षोल्कापातत्रण किणकलङ्काङ्किततनुम् ॥ १३ ॥
 
1
 

पूर्वार्धं रात्रौ चन्द्रमसं वर्णयतो भोजराजस्य । उत्तरार्ध च
धं च
राजदर्शनार्थं छद्मचोरस्य पण्डितस्य ।
 

564
 

इदमनुचितमक्रमञ्श्च पुंसां
 

यदिहं जरास्वपि मान्मथा विकाराः ।

इदमपि न कृतं नितम्बिनीनां
 

स्तनपतनावधि जीवितं रतं वा ॥ १४ ॥
 

पूर्वार्धं शारिक्रीडां कुर्वत्याः शीलाभट्टारिकायाः । उत्तरार्ध च
धं च
भोजराजस्य ।
 

565
 

अष्टौ हाटककोटय स्त्रिनवतिर्मुक्ताफलानां तुला:

पञ्चाशन्मधुगन्धलुब्धमधुपाः क्रोधोद्धुराः सिन्धुराः ।

लावण्योपचयप्रपञ्चचतुरं पण्याङ्गनानां शतं

दण्डे पाण्ड्यनृपेण ढौकितमिदं वैतालिकायार्पय ।॥ १५ ॥

निखिलमपि पद्यं विज्ञापयतो भाण्डागारिकस्योक्तिः । वैतालि-

कायार्पयेति च सप्ताक्षराणि वैतालिंलिकगीतदत्तकर्णस्य विक्रमादि-

त्यस्य प्रत्युक्तिः ।
 

566
 

अलमतिचपलत्वात्स्वप्नमायोपमत्वा-

त्
परिणतिविरसत्वात्संगमेनाङ्गनायाः ।