This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
पूर्वार्ध मृगयाया गृहमागच्छतः शिविकारूढस्य भोजराजस्योक्तिः ।
उत्तरार्ध च राजदर्शनार्थ छद्मशिविकावाहपण्डितस्य प्रत्युक्तिः ।
 
563
 
यदेतच्चन्द्रान्त र्जलदलवलीलां वितनुते
 
तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।
अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी-
कटाक्षोल्कापातत्रण किणकलङ्काङ्किततनुम् ॥ १३ ॥
 
1
 
पूर्वार्ध रात्रौ चन्द्रमसं वर्णयतो भोजराजस्य । उत्तरार्ध च
राजदर्शनार्थ छद्मचोरस्य पण्डितस्य ।
 
564
 
इदमनुचितमक्रमञ्च पुंसां
 
यदिहं जरास्वपि मान्मथा विकाराः ।
इदमपि न कृतं नितम्बिनीनां
 
स्तनपतनावधि जीवितं रतं वा ॥ १४ ॥
 
पूर्वार्ध शारिक्रीडां कुर्वत्याः शीलाभट्टारिकायाः । उत्तरार्ध च
भोजराजस्य ।
 
565
 
अष्टौ हाटककोटय स्त्रिनवतिर्मुक्ताफलानां तुला:
पञ्चाशन्मधुगन्धलुब्धमधुपाः क्रोधोद्धुराः सिन्धुराः ।
लावण्योपचयप्रपञ्चचतुरं पण्याङ्गनानां शतं
दण्डे पाण्ड्यनृपेण ढौकितमिदं वैतालिकायार्पय ।॥ १५ ॥
निखिलमपि पद्यं विज्ञापयतो भाण्डागारिकस्योक्तिः । वैतालि-
कायापयेति च सप्ताक्षराणि वैतालिंकगीतदत्तकर्णस्य विक्रमादि-
त्यस्य प्रत्युक्तिः ।
 
566
 
अलमतिचपलत्वात्स्वममायोपमत्वा-
परिणतिविरसत्वात्संगमेनाङ्गनायाः ।