This page has been fully proofread once and needs a second look.

प्रश्नोत्तराख्यानम्
 
558
 

किं क्रूरं स्त्रीहृदयं किं गृहिण : प्रियहिताय दारगुणाः ।

कः कामः संकल्पः किं दुष्करसाधनं प्रज्ञा ॥ ८ ॥
 

दण्डिनः ।
 

अथ प्रश्नोत्तरेषु बाह्यालापाः ॥
 

559
 

नीचेषु यावनी वाणी का क: स्याच्छुभदो जने ।

शंभोरावरणं किं कं भजन्ते व्याधयो जनम् ॥ ९ ॥

श्रीहरिहरदेवानाम् ।
 

प्रश्नोत्तरं किम् । अवेलाभोजिनम् । अबे । लाभः । अजिनम् ।

पुनः सर्वम् । अवेलाभोजिनम् ।
 

560
 

कस्मिन्स्वपिति कंसारि: का वृत्तिरधमा नृणाम् ।

किं ब्रूते पितरं बाल: किं दृष्ट्वा रमते मनः ॥ १० ॥
 

कस्यापि ।
 

प्रश्नोत्तरं किम् । शेषेसेवाबापररूपम् । शेषे । सेवा । बापर ।
 

रूपम् ।
 

 
अथ प्रश्नोत्तरेषूक्ति प्रत्युक्तयः ॥
 
८२
 

561
 

कियन्मात्रं जलं विप्र जानुदघ्नं नराधिप ।

तथापीयमवस्था ते नहि सर्वे भवादृशाः ॥ ११ ॥
 

प्रथमपादस्तृतीयपादश्च नदीमुत्तितीर्षोर्मोभोजराजस्योक्ति: । द्वितीय-

पादचतुर्थपादश्च राजदर्शनार्थं छद्मकाष्ठभारवाहपण्डितस्य प्रत्युक्तिः ।
 

562
 

भूरिभारभराक्रान्त बाधति स्कन्ध एष ते ।
 

न तथा बाधते स्कन्धो यथा बाधति बाधते ॥ १२ ॥