This page has not been fully proofread.

प्रश्नोत्तराख्यानम्
 
558
 
किं क्रूरं स्त्रीहृदयं किं गृहिण : प्रियहिताय दारगुणाः ।
कः कामः संकल्पः किं दुष्करसाधनं प्रज्ञा ॥ ८ ॥
 
दण्डिनः ।
 
अथ प्रश्नोत्तरेषु बाह्यालापाः ॥
 
559
 
नीचेषु यावनी वाणी का क: स्याच्छुभदो जने ।
शंभोरावरणं किं कं भजन्ते व्याधयो जनम् ॥ ९ ॥
श्रीहरिहरदेवानाम् ।
 
प्रश्नोत्तरं किम् । अवेलाभोजिनम् । अबे । लाभः । अजिनम् ।
पुनः सर्वम् । अवेलाभोजिनम् ।
 
560
 
कस्मिन्स्वपिति कंसारि: का वृत्तिरधमा नृणाम् ।
किं ब्रूते पितरं बाल: किं दृष्ट्वा रमते मनः ॥ १० ॥
 
कस्यापि ।
 
प्रश्नोत्तरंम् । शेषेसेवाबापररूपम् । शेषे । सेवा । बापर ।
 
रूपम् ।
 
अथ प्रश्नोत्तरेषूक्ति प्रत्युक्तयः ॥
 
८२
 
561
 
कियन्मात्रं जलं विप्र जानुदघ्नं नराधिप ।
तथापीयमवस्था ते नहि सर्वे भवादृशाः ॥ ११ ॥
 
प्रथमपादस्तृतीयपादश्च नदीमुत्तितीर्षोर्मोजराजस्योक्ति: । द्वितीय-
पादचतुर्थपादश्च राजदर्शनार्थ छद्मकाष्ठभारवाहपण्डितस्य प्रत्युक्तिः ।
 
562
 
भूरिभारभराक्रान्त बाधति स्कन्ध एष ते ।
 
न तथा बाधते स्कन्धो यथा बाधति बाधते ॥ १२ ॥