This page has been fully proofread once and needs a second look.

८८
 
शार्ङ्गधरपद्धतिः
 

किमाह सीता दशकण्ठभीता
 

हारामहादेवरतातमातः ॥ ३ ॥
 
कस्बा

कस्या
पि ।
 

हारा: । महादेवरता । तमातः रात्रेः । पुनः सर्वम् । हा राम

हा देवर तात मातः ।
 

554
 

रवेः कवेः किं समरस्य सारं

कृषेर्भयं किं किमुशन्ति भृङ्गाः ।

खलाद्भयं विष्णुपदं च केषां

भागीरथीतीरसमाश्रितानाम ॥ ४ ॥
 

कस्यापि ।
 

भाः । गीः । रथी । ईतिः । रसम् । आश्रितानाम् । पुनः सर्वम् ।

भागीरथीतीर समाश्रितानाम् ।
 
555
 

555
कः पाप्रार्थ्यते मदनविहुह्वलया युवत्या

भाति क्व पुण्ड्रकमुपैति कथं बतायुः ।
का

क्वा
नादरो भवति केन च राजतेब्जं
 

बाह्यास्थि किं फलमुदाहर नालिकेरम् ॥ ५॥
 

कस्यापि ।
 

ना । अलिके । अरम् । प्रतिलोमेन । रङ्के । अलिना । पुन: स-

र्वम् । नालिकेरम् ।
 

556
 

कम्य मरौ दुरधिगमः कः कमले कथय विरचितावासः ।

कैस्तुष्यति चामुण्डा रिपवस्ते वद कुतो भ्रष्टाः ॥ ६ ॥

आद्युत्तरजातिर्धर्मदासस्य ।
कं

स्य जलस्य । कः ब्रह्मा । कैः शिरोभिः । कुतः पृथिव्याः ।
 

557
 

नलिनीदलगतजललवतरलं किं यौवनं धनं त्राचायुः ।

के शशधरकर निकरानुकारिणः सज्जना एव ॥ ७ ॥
 

कम्यापि ।