This page has not been fully proofread.

८८
 
शार्ङ्गधरपद्धतिः
 
किमाह सीता दशकण्ठभीता
 
हारामहादेवरतातमातः ॥ ३ ॥
 
कस्बापि ।
 
हारा: । महादेवरता । तमातः रात्रेः । पुनः सर्वम् । हा राम
हा देवर तात मातः ।
 
554
 
रवेः कवेः किं समरस्य सारं
कृषेर्भयं किं किमुशन्ति भृङ्गाः ।
खलाद्भयं विष्णुपदं च केषां
भागीरथीतीरसमाश्रितानाम ॥ ४ ॥
 
कस्यापि ।
 
भाः । गीः । रथी । ईतिः । रसम् । आश्रितानाम् । पुनः सर्वम् ।
भागीरथीतीर समाश्रितानाम् ।
 
555
 
कः पार्थ्यते मदनविहुलया युवत्या
भाति क पुण्ड्रकमुपैति कथं बतायुः ।
कानादरो भवति केन च राजतेजं
 
बाह्यास्थि किं फलमुदाहर नालिकेरम् ॥ ५॥
 
कस्यापि ।
 
ना । अलिके । अरम् । प्रतिलोमेन । रङ्के । अलिना । पुन: स-
र्वम् । नालिकेरम् ।
 
556
 
कम्य मरौ दुरधिगमः कः कमले कथय विरचितावासः ।
कैस्तुष्यति चामुण्डा रिपवस्ते वद कुतो भ्रष्टाः ॥ ६ ॥
आद्युत्तरजातिधर्मदासस्य ।
कंस्य जलस्य । कः ब्रह्मा । कैः शिरोभिः । कुतः पृथिव्याः ।
 
557
 
नलिनीदलगतजललवतरलं किं यौवनं धनं त्रायुः ।
के शशधरकर निकरानुकारिणः सज्जना एव ॥ ७ ॥
 
कम्यापि ।