This page has been fully proofread once and needs a second look.

८६
 
शार्ङ्गधरपद्धतिः
 

मधुकराङ्गनया मुहुरुन्मद-

ध्वनिभृता निभृताक्षरमुज्जगे ॥ १४ ॥
 

माघकवेः कठिनानुप्राससहितं चतुर्थपादान्तयमकम् ।
 

548
 

आम्नायानामाहान्त्या वा-

ग्गीतीरीतीः प्रीतीर्भीतीः ।
 

भोगो रोगो मोदो मोहो

ध्येये चेच्छेत्क्षेमे देशे ॥ १५ ॥
 

दण्डिनश्चातुर्मांतमातृकं विद्युन्मालान्दः ।
 

 
अस्य व्याख्या
 
। आम्म्रानायानां वेदानामन्त्या वागुपनिषदाह अक-

थयत् । किमाह । गीती: ईसीती: प्रीती: भीतीः भोगः रोगः

मोदः मोहः क्षेमे शुभे देशे आत्मपरमात्मानौ ध्येये इच्छेत् ।
 

इति चित्राणि ॥
 

549
 

उत्सरङ्गकलितोरुकटारी-

भाजिराउतभयंकरभालाः ।
 

सन्तु पायकगणा जय तैस्त्वं

गामगोहरमिलाप इलावी ॥ १६ ॥
 

कस्यापि ।
 

अस्य व्याख्या । हे राजन् पायकगणा: सेवकलोकाः उत्स
-
रङ्गकलितोरुकटारीभाजिराः सन्तु । उत्सरङ्गा अतिमुदिताः कलि-

तोरुकटाः सज्जितपृथुलकपोला ये रीभाः शत्रुगजास्तेषां योसा-

वाजिः सङ्ग्रामस्तं रान्ति ददतीति उत्सरङ्गकलितोरुकटारीभाजिराः ।

उत पुनः भयंकरभालाः भ्रुकुटीभीषणललाटाः सन्तु । तैः पायक-

गणैः इलापः पृथ्वीरक्षकः इलावी जितकंदर्पस्त्वम् अगोहरम् अगोग्रहं

यथा स्यादेवं गां पृथिवीं जय । परदेशानात्मीयान्कुरु ।