This page has not been fully proofread.

८६
 
शार्ङ्गधरपद्धतिः
 
मधुकराङ्गनया मुहुरुन्मद-
ध्वनिभृता निभृताक्षरमुज्जगे ॥ १४ ॥
 
माघकवेः कठिनानुप्राससहितं चतुर्थपादान्तयमकम् ।
 
548
 
आम्नायानामाहान्त्या वा-
ग्गीतीरीतीः प्रीतीर्भीतीः ।
 
भोगो रोगो मोदो मोहो
ध्येये चेच्छेत्क्षेमे देशे ॥ १५ ॥
 
दण्डिनश्चातुर्मांतकं विद्युन्मालाउन्दः ।
 
अस्य व्याख्या
 
। आम्म्रायानां वेदानामन्त्या वागुपनिषदाह अक-
थयत् । किमाह । गीती: ईसी: प्रीती: भीतीः भोगः रोगः
मोदः मोहः क्षेमे शुभे देशे आत्मपरमात्मानौ ध्येये इच्छेत् ।
 
इति चित्राणि ॥
 
549
 
उत्सरङ्गकलितोरुकटारी-
भाजिराउतभयंकरभालाः ।
 
सन्तु पायकगणा जय तैस्त्वं
गामगोहरमिलाप इलावी ॥ १६ ॥
 
कस्यापि ।
 
अस्य व्याख्या । हे राजन् पायकगणा: सेवकलोकाः उत्स
रङ्गकलितोरुकटारीभाजिराः सन्तु । उत्सरङ्गा अतिमुदिताः कलि-
तोरुकटाः सज्जितपृथुलकपोला ये भरीभाः शत्रुगजास्तेषां योसा-
वाजिः सङ्ग्रामस्तं रान्ति ददतीति उत्सरङ्गकलितोरुकटारीभाजिराः ।
उत पुनः भयंकरभालाः भ्रुकुटीभीषणललाटाः सन्तु । तैः पायक-
गणैः इलापः पृथ्वीरक्षकः इलावी जितकंदर्पस्त्वम् अगोहरम् अगोमहं
यथा स्यादेवं गां पृथिवीं जय । परदेशानात्मीयान्कुरु ।