This page has been fully proofread once and needs a second look.

क्रियागुप्तादि चित्राख्यानम्
 
नमामि मामनोनुनमानं मुनिममानिनम् ।
नानानन ममाना ममोना मानभुमेनमुम् ॥ १० ॥
शरस्य ।
 

543
 

नमामि मामनोनुन्नमानं मुनिममानिनम् ।
नानाननममानाममोंनामानमुमेनमुम् ॥ १० ॥
शार्ङ्गधरस्य ।
नमामि नमस्करोमि । कम् । उं विष्णुम् । न केवलमुं विष्णुम् ।

उमेनं पार्वतीनाथम् । हरिहरावित्यर्थः । किंभूतम् । मामनोनुन्नमा -

नम् । मां लक्ष्मीः तस्या मनसो नुन्नः अपहृतो मानो येन सः तम् ।

लक्ष्मीचाञ्चल्यगर्वापहारिणम् । पुनः किंभूतम् । मुनिं योगीश्वरम् ।

पुनः किंभूतम् । अमानिनम् । नास्ति मानो यस्यासौ तम् । पुनः

किंभूतम् । नानाननम् । नानाविधान्याननानि मुखानि यस्यासौ तम् ।

दशावतारत्वान्नै कविधमुखम् । पुनः किंभूतम् । अमानामम् । अमा-

नमाकाशममति क्रमतीत्यमानामः तम् । पुनः किंभूतम् । ॐनामानम् ।

ब्रह्मस्वरूपम् । एवंविधम् उम् उमेनं च हरिं हरं च नमामि ।
 

द्व्यक्षरः ।
 

544
 

तारतारतरैरेतैरुत्तरोत्तरतो रुतैः ।
 

रतार्ता तित्तिरी रौति तीरे तीरे तरौ तरौ ॥ ११ ॥

द्व्यक्षरः कालिदासस्य ।
 

545
 

नागविशेषे शेषे शेषेशेषेपि संहृते जगति ।
 
इं

हं
स्यसिकालं कालं का लङ्कालङ्ने स्तुतिर्भवतः ॥ १२ ॥
 

देवेश्वरस्य सानुप्रासः ।
 

546
 
लो

ली
लास्मितेन शुचिना मृदुनोदितेन
 

व्यालोकितेन लघुना गुरुणा गतेन ।

व्यावृजृम्भितेन जघनेन च दार्शितेन
 
खा

सा
हन्ति तेन गलितं मम जीवितेन ॥ १३ ॥
 

ण्डिनः सानुप्रासः ।
 
८५
 

547
 

मधुरया मधुबोधितमाधवी
 

मधुसमृद्धिसमेधितमेधया ।