This page has not been fully proofread.

क्रियागुप्तादि चित्राख्यानम्
 
नमामि मामनोनुनमानं मुनिममानिनम् ।
नानानन ममाना ममोना मानभुमेनमुम् ॥ १० ॥
शरस्य ।
 
543
 
नमामि नमस्करोमि । कम् । उं विष्णुम् । न केवलमुं विष्णुम् ।
उमेनं पार्वतीनाथम् । हरिहरावित्यर्थः । किंभूतम् । मामनोनुन्नमा -
नम् । मां लक्ष्मीः तस्या मनसो नुन्नः अपहतो मानो येन सः तम् ।
लक्ष्मीचाञ्चल्यगर्वापहारिणम् । पुनः किंभूतम् । मुनिं योगीश्वरम् ।
पुनः किंभूतम् । अमानिनम् । नास्ति मानो यस्यासौ तम् । पुनः
किंभूतम् । नानाननम् । नानाविधान्याननानि मुखानि यस्यासौ तम् ।
दशावतारत्वान्नै कविधमुखम् । पुनः किंभूतम् । अमानामम् । अमा-
नमाकाशममति क्रमतीत्यमानामः तम् । पुनः किंभूतम् । ॐनामानम् ।
ब्रह्मस्वरूपम् । एवंविधम् उम् उमेनं च हरिं हरं च नमामि ।
 
द्व्यक्षरः ।
 
544
 
तारतारतरैरेतैरुत्तरोत्तरतो रुतैः ।
 
रतात तित्तिरी रौति तीरे तीरे तरौ तरौ ॥ ११ ॥
द्व्यक्षरः कालिदासस्य ।
 
545
 
नागविशेषे शेषे शेषेशेषेपि संहते जगति ।
 
इंस्यसिकालं कालं का लङ्कालङ्कने स्तुतिर्भवतः ॥ १२ ॥
 
देवेश्वरस्य सानुप्रासः ।
 
546
 
लोलास्मितेन शुचिना मृदुनोदितेन
 
व्यालोकितेन लघुना गुरुणा गतेन ।
व्यावृम्भितेन जघनेन च दार्शतेन
 
खा हन्ति तेन गलितं मम जीवितेन ॥ १३ ॥
 
इण्डिनः सानुप्रासः ।
 
८५
 
547
 
मधुरया मधुबोधितमाधवी
 
मधुसमृद्धिसमेधितमेधया ।