This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
(वे० प० १ प०) । एवमेव चित्तं गर्वोऽहङ्कार इत्याद्यपि अन्तःकरणमेव । अन्तः
करणमिन्द्रियं न । यथा – नन्वन्तःकरणस्येन्द्रियतया अतीन्द्रियत्वात् कथमहमिति प्रत्यक्ष-
विषयतेति । उच्यते । न तावदन्त करणमिन्द्रियमित्यत्र मानमस्ति मनः षष्ठानीन्द्रियाणि
इति भगवद्गीतावचनं प्रमाणमिति चेत्, न अनिन्द्रियेणापि मनसा षट्त्वसंख्या-
पूरणाविरोधात् । नहीन्द्रियगतसंख्यापूरणमिन्दियेणैति नियमः । यजमानपञ्चमा इद्रां
भक्षयन्ति इत्यत्र ऋत्विगूगतपञ्चत्वसंख्याया अनृत्विजापि यजमानेन पूरणदर्शनात् ।
वेदानध्यापयामास महाभारतपञ्चममित्यत्र वेदगतपञ्चत्वसङ्ख्याया अवेदेनापि महाभारतेन
पूरणदर्शनात् । इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः (का० १/३/१०)
इत्यादिश्रुत्या मनसोऽनिन्द्रियत्वावगमाच्च । न चैवं मनसोऽनिन्द्रियत्वे सुखादिप्रत्यक्षस्य
साक्षात्त्वं न स्यादिन्द्रियाजन्यत्वादिति वाच्यम् । न हीन्द्रियजन्यत्वेन ज्ञानस्य साक्षात्त्वम्,
अनुमित्यादेरपि मनोजन्यतया साक्षात्त्वापत्तेः । ईश्वरज्ञानस्यानिन्द्रियजन्यस्य
साक्षात्त्वानापत्तेश्च (तत्रैव) । तथा मनस इन्द्रियत्वे ब्रह्मसाक्षात्कारे ब्र० सू० ४।१।२
भामत्यनुसारं मनसः कारणत्वपक्षे ब्रह्मसाक्षात्कारः इन्द्रियजन्यः स्यात् । अतोऽपि
मनसोऽनिन्द्रियत्वं साधनीयम् । तत्र भामत्यामुक्तम् – युक्त्यागमार्थज्ञानाहितसंस्कारसचिवं
चित्तमेव ब्रह्मणि साक्षात्कारवतीं बुद्धिवृत्तिं समाधत्ते । भामतीकारमते मनसः इन्द्रियत्वं
तथा ब्रह्मसाक्षात्कारे मनः साधनमपि । यथा - मनसस्त्विन्द्रियत्वे स्मृतेरवगते क्वचिद्
इन्द्रियेभ्यो भेदेनोपादानं गोबलीवर्दन्यायेन (ब्र० सू० २।४।१७ भाम० ) । क्वचिद्
विवरणकारमतेऽपि अन्तःकरणस्येन्द्रियत्वमुक्तम् । यथा- चित्तेन्द्रियं पारोक्ष्यविभ्रम-
निमित्त.... । (प० मा० वि० प्र० वर्णक शब्दाद् ब्रह्मसाक्षात्कारनिरूपणे) इदमन्त करणं
तैजसं मध्यमपरिमाणं च । अन्तःकरणस्य मनसः अणुपरिमाणत्वे प्राणशक्त्याश्रयस्य
मनसः सुदूरवर्तिध्रुवादिविषयदेशपर्यन्तं गमनेन अन्तःकरणावच्छिन्नस्य जीवस्यापि
तेन सह ध्रुवादिविषयप्रदेशगमने देहस्य निर्जीवत्वापत्तेः । परममहापरिणामत्वे च
आकाशादिवत् निष्क्रियत्वापत्तेः । परममहापरिणामाकाशकालादिवद् उत्क्रान्त्यादिगति-
रपि न सिद्ध्येत । श्रुतौ च प्राणशक्त्याश्रयस्यान्तःकरणस्योत्कन्त्यादिगतिः श्रूयते ।
अतोऽन्तःकरणं मध्यमपरिमाणम् । यद्यपि मध्यमपरिमाणत्वस्वीकारे देहादिवत् तस्यापि
मन्दगमनापत्तिस्तथा सुदूरवर्तिध्रुवादिप्रदेशे झटिति क्षणेन गमनानापत्तिश्च । अतोऽन्तःकरणं
तैजसमङ्गीक्रियते । अन्तःकरणस्य विशेषणं तैजसम् । तेजः सत्त्वगुणं प्रकाशकं च ।
तेन तैजसमन्तःकरणमपि अत्यन्तस्वच्छं विरलं तेजो द्रव्यम् । अतः सूर्यकिरणवदन्तः
करणं शीघ्रमेव प्रसरति । यथा - "तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा निर्गत्य