This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
अन्तर् - , अन्तर्
अव्ययपदम् । अन्तः = १. मध्ये २. ध्वंसः ३. चरमावयः ।

अन्तरिक्षम् - उद्गीथविशेषः गगनं च । यथा - उद्गीथं गगनम्, गकार

विशिष्टोद्गीथः (छा० उ० २/२/१ शा० भा० ) ।
 
-
 
४८
 
-
 

 
अन्तरङ्गसाधनम् - , अन्तरङ्गसाधन
साधनं द्विविधम् अन्तरङ्गसाधनं बहिरङ्गसाधनं च । यथा

ब्रह्मसाक्षात्कारे श्रवणमनननिदिध्यासनादीनि अन्तरङ्गसाधनानि यज्ञदानादीनि बुद्धि-

शुद्धिद्वारा साधनानीति बहिरङ्कसाधनानि । यथा - तस्मादेवंविच्छान्तो दान्तः ( बृ० उ०

४।४।२३) इत्यादि । ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् (बृ० उ० ३।५।१ )

इति च ज्ञानसमकालतया तत्परिपाकहेतुत्वेन श्रुतत्वादन्तरङ्गमित्यर्थः । यज्ञादिकं

बुद्धिशुद्धयादिफलजनकत्वेन कारकत्वाद् वहिरङ्गम् । श्रवणादिकं त्वात्मस्वरूपज्ञापकत्वेन

व्यञ्जकत्वाद् अन्तरङ्गमित्यर्थः । (सं० शा० ३।३०-३१ सु० टी०) यथा च - तमेतं

वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन (बृ० उ०

४।४।२२) इत्यत्र यद् यज्ञदानादिकर्मजातं विविदिषोदयाय श्रुतं तत्सर्वं

बहिरङ्गसाधनमेवेत्यवगच्छ । तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा

आत्मन्येवात्मानं पश्यन् (बृ० उ० ४/४/२३) श्रद्दधानो भूत्वा आत्मन्येवात्मानं

पश्येदित्यादि यत्परावगतिसाधनं परमात्मज्ञानोत्पादकतया तत्परिपाचकतया च

ज्ञानसहभावि यच्छान्तिदान्त्यादिश्रोतव्य इत्यादिना वेदान्तश्रवणादि च श्रुतं

तत्पुनरन्तरङ्गमवगच्छेति योजना । परमात्मनो व्यञ्जकं भवति साधनं तदखिल-

मन्तरङ्गसाधनमित्यर्थः । एतदुक्तं भवति ज्ञानोत्पत्तौ येषां कारकाणां दृष्टद्वारोपकारो

न दृश्यते तानि कारणानि यज्ञादीन्यरादुपकारकानि बहिरङ्गसाधनानीति चोच्यन्ते । येषां

तु ज्ञानं प्रति दृष्टद्वारोपकारो दृश्यते तानि व्यञ्जकानि शमादीनि तानि

संनिपत्योपकारकाण्यन्तरङ्गसाधनानि चोच्यन्त इति (सं० शा० ३।३३१ अ० टी०)

 
अन्तःकरणम् , अन्तःकरण
अन्तःज्ञानसाधनं मन इति यावत् । (बुद्धिचेतोऽहङ्कारादयः

पर्यायवाचिनः) इदं मनः सावयवमनित्यं च । यथा - "न तावदन्तः करणं निरवयवं

सादिद्रव्यत्वेन सावयवत्वात् । सादित्वं च तन्मनोऽसृजत् इत्यादि श्रुतेः । वृत्तिरूप-

ज्ञानस्य मनोधर्मत्वे च "कामः संकल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिरधृतिर्धीर्भी-

रित्येतत् सर्वं मन एव । (बृ० उ० १/५/३) इति श्रुतिमानम् । धीशब्देन वृत्तिरूप-

ज्ञानाभिधानात् । अत एव कामादेरपि मनोधर्मत्वम् । उच्यते- अयःपिण्डस्य

दग्धृत्वाभावेऽपि दग्धृत्वाश्रयवह्नितादात्याध्यासात् यथा अयो दहतीति व्यवहारस्तथा

सुखाद्याकारपारिणाम्यन्तःकरणैक्याध्यासात् अहं सुखी दुःखीत्यादिव्यवहारः ।
 
-
 
-