This page has been fully proofread once and needs a second look.

इत्यादिश्रुतेः प्रतिषेधादिति चेन्न शारीरात् (ब्र० सू० ४।२।१२) इत्यधिकरणे शुकमुक्त-
प्रतिपादकभाष्यस्य चानाञ्जस्यमित्य-परितुष्यन्तः अन्तःकरणादीनां जीवोपाधित्वाभ्युपगमेन
अनेकजीववादमाश्रित्य बन्धमुक्तिव्यवस्थां प्रतिपद्यन्ते (सि० ले० सं० १ प०) ।
यथा च एकजीववादेऽविद्याप्रतिबिम्बो जीवः अनेकजीववादे अन्तःकरण-
प्रतिबिम्ब: (वे० प० ७५०) । एवमेव अन्तःकरणावच्छिन्नेऽपि अनेकजीववादे
दृष्टिसृष्टिवादः । विशदज्ञानार्थमेकजीववादशब्दो द्रष्टव्यः ।
 
अनेकत्वम्, अनेकत्व
१. एकत्वभिन्नसंख्याविशिष्टत्वम् (दि० मु०) । यथा - अनेके
ब्राह्मणाः सन्तीत्यादौ ब्राह्मणानामनेकत्वम् । २. अपेक्षा-बुद्धिविशेषविषयत्वम् । यथा-
अस्मिन् द्रव्येऽनेके गुणाः सन्तीत्यादौ अनेकत्वम् ।
 
अनेजत्, अनेजत्
सर्वदैकरूपम् । यथा - न एजत् एज् कम्पने कल्पनं चलनं स्वावस्था-
प्रच्युतिस्तद्-वर्जितं सर्वदैकरूपमित्यर्थः (ई० उ० ४ शा० भा०) ।
 
अन्तः, अन्त
(पु० लि०) समाप्तिः विरामः, अवसानं समाप्तः, अन्तिमो भागश्च ।
यथा वेदानामन्तः वेदान्तः वेदानामन्तिमो भाग उपनिषद्भागः । तेन वेदान्तो नामोप-
निषत्प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि च (वे० सा० ) ।
 
अन्तकालः, अन्तकाल
वृद्धावस्था । यथा- अस्यां ब्राह्म्यां स्थितावन्तकाले
वृद्धावस्थायामपि स्थित्वा ब्रह्मणि निर्वृत्तिं मोक्षमृच्छति गच्छति (गी०२।७२ भाष्यो०) ।
कालसमाप्तिः, निधनम् ।
 
अन्तत्रयम्, अन्तत्रय
यस्य देशतः कालतः वस्तुतश्च अन्तो निरूप्यते । यथा- देशतः
कालतो वस्तुतश्च यस्यान्तो निरूप्यते तदन्तत्रयवत् । यथा घटादि देहादि वा अन्तत्रयवत्
(सं० शा० मं० श्लो० अ० टी०) ।
 
अन्तवत्, अन्तवत्
परमं पदम् देशकालवस्तूनां यत्रान्तः समाप्तिस्तद्वत् । यथा-
अभूत्वा भावित्वाद् भूत्वा च यदभावित्वात् तत्कालतोऽन्तवत् । मूर्तत्त्वाद्देश-
तोऽप्यन्तवत् । वस्तुतोऽप्यन्तवदन्योन्याभावप्रतियोगित्वात् आकाशकालदिशामप्यन्तवत्त्वं
वस्त्वन्तरकृतपरिच्छेदलक्षणं प्रसिद्धमेव । देशतः कालतश्चान्तवत्त्वं तु तेषामुत्पत्ति-
प्रलयश्रुतिनिरूप्यम् । तथा चेदमेवमन्तवदिति यस्मिन्ननुगते सत्यज्ञानात्मके व्यवह्रियते
तत्रान्तवतामवधितयाऽनुस्यूताकारमन्तर्विरोधितयान्तपदेन तदेव परमपदमावेद्यत
इत्यर्थ: । (सं० शा० म० श्लो० अ० टी०) ।