2023-03-12 05:00:17 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
अनृतम् – १. अनिर्वाच्यम्, सत्त्वेनासत्त्वेन सदसद्भिन्नत्वेन सदसदुभयत्वेन
-
-
वा वक्तुमशक्यम् । मरीच्यादौ जलादिबुद्धिः । यथा - तत्त्वतस्तु न तोयं न च पूर्वदृष्टं
किन्त्वनृतम्, अनिर्वाच्यम् (ब्र० सू० अध्यासभाष्ये भा० ) । यथा च - अनृतेन हि
प्रत्यूढाः अन्धीभूताः अस्फुरब्रह्मस्वरूपकाः । ज्ञानप्रतिबन्धकत्वेनास्फुरणव्याप्यत्वेन
(अ० सि० १ प० गौ० ब्र०) । यथा च - अनृतं यद् यदस्तीति यत्र येनात्मना प्रतीतं
सत् तदेव तत्र तेनात्मना नास्तीति प्रतीतिगोचरः । यथा पुरोदेशे इदमुल्लिख्पमाने
रजतमिदमिति प्रतीतं सत्समयान्तरे शुक्तिरियं न रजतमिति पूर्वप्रतीतविपरीतस्वभावतया
गृह्यते तदा तत्र पूर्वदृष्टमनृतमिति प्रसिद्धं लोके । तथा च प्रतिपन्नोपाधौ
निषेधप्रतियोगितया व्यवह्रियमाणमनृतमित्यर्थः (सं० शा० मं० श्लोके अ० टी० ) ।
३. मृत्युः । यथा - अनृतं हि मृत्युः (बृ० आ० उ० ५/५/१ शा० भा०) । ४.
मिथ्या । ५. असत् । विशदार्थं तु ऋतशब्दो द्रष्टव्यः ।
-
अनेकजीववादः - परब्रह्मणो जीवभावापन्नार्थं त्रयो वादाः सन्ति - आभासवादः
प्रतिबिम्बवादः अवच्छिन्नवादश्च । श्रीसुरेश्वराचार्याभिमतः आभासवादः
श्रीपद्यपादाचार्य.... प्रकाशात्मयत्यभिमतः प्रतिविम्बवादः । उभयपक्षे प्रायः समानः
प्रतिबिम्बः स्वीकृतः । किन्तु मिथ्यात्वसत्यत्वाभ्यां उभयवादे कश्चन भेदोऽङ्गीक्रियते ।
श्रीवाचस्पतिमिश्रस्यावच्छिन्नवादः । विवरणकारमते जीवेश्वरयोः पारमार्थिकभेदाभावेऽपि
औपाधिकः कल्पितो भेदः यथा गगनसूर्यप्रतिविम्बसूर्ययोः औपाधिको भेदः । एवं च
एका अविद्या उपाधिः । अत एकजीववादः । यत्र अन्तःकरणमुपाधिस्तत्र अनेकानि
अन्तःकरणानि अनेके च जीवा: अतोऽनेकजीववादः । यथा - एकमेव चैतन्यं
विम्बत्वाक्रान्तमीश्वरचैतन्यं प्रतिबिम्बत्वाक्रान्तं जीवचैतन्यम् । बिम्बप्रतिबिम्बकल्पको
पाधिश्चैकजीववादे अविद्या । अनेकजीववादेतु अन्तःकरणान्येव । उपाधिकृतदोषाश्च
प्रतिबिम्वे जीव एव न तु बिम्बे परमेश्वरे । उपाधेः प्रतिविम्बपक्षपातित्वात्
(वे० प०७१०) । यथा च - अथायं जीव एकः उतानेकः । अनुपदोक्तपक्षावलम्विनः
केचित् आहुः - एको जीवः । तेन चैकमेव शरीरं सजीवम् । अन्यानि स्वप्नदृष्टशरीराणि
इव निर्जीवानि । तदज्ञानकल्पितं सर्वं जगत् । तस्य स्वप्नदर्शनवद् यावदविधं सर्वो
व्यवहारः । बद्धमुक्तव्यवस्थापि नास्ति जीवस्यैकत्वात् । शुकमुक्त्यादिकमपि
स्वाप्नपुरुषान्तरमुक्त्यादिकमिव कल्पितम् । अत्र च सम्भावितसकलशङ्काकलङ्कपङ्कक्षालनं
स्वप्नदृष्टान्तसलिलधारयैव कर्तव्यम् । ....इतरे तु अत्रापि बन्धमुक्तिव्यवस्थाभावस्य
तुल्यत्वेन तद् यो देवानां प्रत्यबुध्यत स एव तदभवत् (बृ० उ० १/४/१०)
-
.